________________
જ્ઞાનસાર સૂક્ત- રન - મંજૂષા
૧૮૯ ५/८ पीयूषमसमुद्रोत्थं, रसायनमनौषधम् ।
अनन्यापेक्षमैश्वर्यं, ज्ञानमाहुर्मनीषिणः ॥११॥ विकल्पविषयोत्तीर्णः, स्वभावालम्बनः सदा ।
ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः ॥१२॥ ६/५ ज्ञानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो ! ।
तं नाप्नोति गुणं साधुः, यं प्राप्नोति शमान्वितः ॥१३॥ ६/६ स्वयम्भूरमणस्पद्धि-वर्धिष्णुसमतारसः ।
मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे ॥१४॥ ६/७ शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः ।
कदाऽपि ते न दह्यन्ते, रागोरगविषोर्मिभिः ॥१५॥ ७/१ बिभेषि यदि संसारात्, मोक्षप्राप्तिं च काक्षसि ।
तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् ॥१६॥ ७/४ आत्मानं विषयैः पाशैः, भववासपराङ्मुखम् ।
इन्द्रियाणि निबध्नन्ति, मोहराजस्य किङ्कराः ॥१७॥ ७/७ पतङ्गभृङ्गमीनेभ-सारङ्गा यान्ति दुर्दशाम् ।
एकैकेन्द्रियदोषाच्चेद्, दुष्टैस्तैः किं न पञ्चभिः ? ॥१८॥ ७/८ विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः ।
इन्द्रियैर्यो न जितोऽसौ, धीराणां धुरि गण्यते ॥१९॥ ८/२ युष्माकं सङ्गमोऽनादिः, बन्धवोऽनियतात्मनाम् ।
ध्रुवैकरूपान् शीलादि-बन्धूनित्यधुना श्रये ॥२०॥ गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन, तावत् सेव्यो गुरूत्तमः ॥२१॥