________________
જ્ઞાનસાર સૂક્ત- રન- મંજૂષા
૧૯૫
२३/४ लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् ।
तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात् कदाचन ॥७७॥ २३/५ श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च ।
स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः ॥७८॥ २३/७ आत्मसाक्षिकसद्धर्म-सिद्धौ किं लोकयात्रया ? ।
तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शने ॥७९॥ २४/१ चर्मचक्षुर्भूतः सर्वे, देवाश्चावधिचक्षुषः ।
सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः ॥८॥ २४/४ शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः ।
पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ॥८१॥ २४/५ अदृष्टार्थेऽनुधावन्तः, शास्त्रदीपं विना जडाः ।
प्राप्नुवन्ति परं खेदं, प्रस्खलन्तः पदे पदे ॥८२॥ २४/६ शुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् ।
भौतहन्तुर्यथा तस्य, पदस्पर्शनिवारणम् ॥८३॥ २४/७ अज्ञानाहिमहामन्त्रं, स्वाच्छन्द्यज्वरलङ्घनम् ।
धर्मारामसुधाकुल्यां, शास्त्रमाहुर्महर्षयः ॥८४॥ २५/३ यस्त्यक्त्वा तृणवद् बाह्यं, आन्तरं च परिग्रहम् ।
उदास्ते तत्पदाम्भोज, पर्युपास्ते जगत्त्रयी ॥८५॥ २५/४ चित्तेऽन्तर्ग्रन्थगहने, बहिर्निर्ग्रन्थता वृथा ।
त्यागात्कञ्चकमात्रस्य, भुजगो न हि निर्विषः ॥८६॥ २५/८ मूर्छाच्छन्नधियां सर्वं, जगदेव परिग्रहः ।
मूर्च्छया रहितानां तु, जगदेवापरिग्रहः ॥८७॥
मा