________________
૧૮૬
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા १३/४६ दधद् गृहस्थेषु ममत्वबुद्धि, तदीयतप्त्या परितप्यमानः ।
अनिवृत्तान्तःकरणः सदा स्वैः, तेषां च पापैर्धमिता भवेऽसि ॥१९॥ १३/४७ त्यक्त्वा गृहं स्वं परगेहचिन्ता-तप्तस्य को नाम गुणस्तवर्षे ! ? ।
आजीविकास्ते यतिवेषतोऽत्र, सुदुर्गतिः प्रेत्य तु दुर्निवारा ॥१०॥ १३/४८ कुर्वे न सावधमिति प्रतिज्ञां,
वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन् गृहस्थान्,
हृदा गिरा वाऽसि कथं मुमुक्षुः? ॥१०१॥ १३/५६ यस्य क्षणोऽपि सुरधामसुखानि पल्य
कोटीतॄणां द्विनवती ह्यधिकां ददाति । किं हारयस्यधम ! संयमजीवितं तत् ?,
हा ! हा ! प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ? ॥१०२॥ १३/५७ नाम्नाऽपि यस्येति जनेऽसि पूज्यः,
शुद्धात् ततो नेष्टसुखानि कानि ? । तत् संयमेऽस्मिन् यतसे मुमुक्षो !,
ऽनुभूयमानोरूफलेऽपि किं न ? ॥१०३॥ १३/६ जानेऽस्ति संयमतपोभिरमीभिरात्मन् !,
अस्य प्रतिग्रहभरस्य न निष्क्रयोऽपि । किं दुर्गतौ निपततः शरणं तवास्ते ?,
सौख्यञ्च दास्यति परत्र किमित्यवेहि ॥१०४॥ १३/१७न काऽपि सिद्धिर्न च तेऽतिशायि,
मुने ! क्रियायोगतपःश्रुतादि । तथाऽप्यहङ्कारकर्थितस्त्वं, ख्यातीच्छया ताम्यसि धिङ्मधा किम् ? ॥१०५॥