________________
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા
૧૮૫ १३/३७ त्यज स्पृहां स्वःशिवशर्मलाभे, स्वीकृत्य तिर्यङ्नरकादिदुःखम् ।
सुखाणुभिश्चेद् विषयादिजातैः, सन्तोष्यसे संयमकष्टभीरुः ॥११॥ १३/३३शमत्र यद् बिन्दुरिव प्रमादजं,
परत्र यच्चाब्धिरिव द्युमुक्तिजम् । तयोमिथः सप्रतिपक्षता स्थिता,
विशेषदृष्ट्याऽन्यतरद् गृहाण तत् ॥१२॥ १३/३४ नियन्त्रणा या चरणेऽत्र तिर्यक्-स्त्रीगर्भकुम्भीनरकेषु या च ।
तयोमिथः सप्रतिपक्षभावाद्, विशेषदृष्ट्याऽन्यतरां गृहाण ॥१३॥ १३/३५ सह तपोयमसंयमयन्त्रणां, स्ववशतासहने हि गुणो महान् ।
परवशस्त्वतिभूरि सहिष्यसे, न च गुणं बहुमाप्स्यसि कञ्चन ॥१४॥ १३/३८ समग्रचिन्तातिहतेरिहापि, यस्मिन् सुखं स्यात् परमं रतानाम् ।
परत्र चन्द्रादिमहोदयश्रीः, प्रमाद्यसीहापि कथं चरित्रे ? ॥१५॥ १३/३९ महातपोध्यानपरीषहादि,
न सत्त्वसाध्यं यदि धर्तुमीशः । तद् भावनाः किं समितीश्च गुप्तीः,
धत्से शिवार्थिन् ! न मनःप्रसाध्याः ? ॥१६॥ १३/४३ ध्रुवः प्रमादैर्भववारिधौ मुने !,
तव प्रपात: परमत्सरः पुनः । गले निबद्धोरुशिलोपमोऽस्ति चेत्,
कथं तदोन्मज्जनमप्यवाप्स्यसि ? ॥१७॥ १३/४४ महर्षयः केऽपि सहन्त्युदीर्या
प्युग्रातपादीन् यदि निर्जरार्थम् । कष्टं प्रसङ्गागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो !? ॥९८॥