________________
૧૮૪
અધ્યાત્મપદ્ગમ સૂક્ત- રત્ન - મંજૂષા १३/२४ परिग्रहं चेद् व्यजहा गृहादेः, तत् किं नु धर्मोपकृतिच्छलात् तं ।
करोषि शय्योपधिपुस्तकादेः, गरोऽपि नामान्तरतोऽपि हन्ता ॥८४॥ १३/२७ रक्षार्थं खलु संयमस्य गदिता, येऽर्था यतिनां जिनैः,
वासःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात् त एव कुधियां संसारपाताय धिक्,
स्वं स्वस्यैव वधाय शस्त्रमधियां यद् दुष्प्रयुक्तं भवेत् ॥८५॥ १३/२८ संयमोपकरणच्छलात् परान्, भारयन् यदसि पुस्तकादिभिः ।
गोखरोष्ट्रमहिषादिरूपभृत्, तच्चिरं त्वमपि भारयिष्यसे ॥८६॥ १३/५५ विराधितैः संयमसर्वयोगेः,
पतिष्यतस्ते भवदुःखराशौ । शास्त्राणि शिष्योपधिपुस्तकाद्या,
भक्ताश्च लोका शरणाय नालम् ॥८७॥ १३/२९ वस्त्रपात्रतनुपुस्तकादिनः, शोभया न खलु संयमस्य सा ।
आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् ॥४८॥ १३/३२ यदत्र कष्टं चरणस्य पालने,
परत्र तिर्यड्नरकेषु यत्पुनः । तयोमिथः सप्रतिपक्षता स्थिता,
विशेषदृष्ट्याऽन्यतरं जहीहि तत् ॥८९॥ १३/३६ अणीयसा साम्यनियन्त्रणाभुवा,
मुनेऽत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गतिगर्भवासगासुखावलेस्तत् किमवापि नार्थितम् ? ॥१०॥