________________
१८३
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન - મંજૂષા १३/११ उच्चारयस्यनुदिनं न करोमि सर्वं,
सावद्यमित्यसकृदेतदथो करोषि । नित्यं मृषोक्तिजिनवञ्चनभारितात् तत्,
सावद्यतो नरकमेव विभावये ते ॥७८॥ १३/१२ वेषोपदेशाद्युपधिप्रतारिता,
ददत्यभीष्टानृजवोऽधुना जनाः । भुक्षे च शेषे च सुखं विचेष्टसे,
भवान्तरे ज्ञास्यसि तत्फलं पुनः ॥७९॥ १३/१६ गृह्णासि शय्याऽऽहतिपुस्तकोपधीन्,
सदा परेभ्यः तपसस्त्वियं स्थितिः । तत्ते प्रमादाद् भरितात् प्रतिग्रहै:,
ऋणार्णमग्नस्य परत्र का गतिः ? ॥८॥ १३/१३ आजीविकादिविविधार्तिभृशानिशार्ताः,
कृच्छ्रेण केऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय ! जिघृक्षसि सर्वमिष्टं,
नो संयमे च यतसे भविता कथं ही ? ॥८१॥ १३/२२ भवेद् गुणी मुग्धकृतैर्न हि स्तवैः,
न ख्यातिदानार्चनवन्दनादिभिः । विना गुणान् नो भवदुःखसंक्षयः,
ततो गुणानर्जय किं स्तवादिभिः ? ॥८२॥ १३/८ गुणांस्तवाश्रित्य नमन्त्यमी जना,
ददत्युपध्यालयभैक्ष्यशिष्यकान् । विना गुणान् वेषमृषेः बिभर्षि चेत्, ततष्ठकानां तव भाविनी गतिः ॥८३॥