________________
૧૮૨
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા
१४ / ९ अत एव जिना दीक्षा कालादाकेवलोद्भवम् ।
अवद्यादिभिया ब्रूयुः ज्ञानत्रयभूतोऽपि न ॥७०॥
"
१ / ९ न यस्य मित्रं न च कोऽपि शत्रुः,
निजः परो वाऽपि न कश्चनास्ते । न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तः परमः स योगी ॥ ७१ ॥
१५ / ९ कुर्या न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती कषायान् । इहापि सौख्यं लभसेऽयनीहो ह्यनुत्तरामर्त्यसुखाभमात्मन् ! ॥७२॥ १६/३ निःसङ्गतामेहि सदा तदात्मन् ! अर्थेष्वशेषेष्वपि साम्यभावात् । अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति ॥७३॥ १६/५ तमेव सेवस्व गुरुं प्रयत्नाद् अधीष्व शास्त्राण्यपि तानि विद्वन् ।। तदेव तत्त्वं परिभावयात्मन् ! येभ्यो भवेत् साम्यसुधोपभोगः ॥ ७४ ॥ १३/२ स्वाध्यायमाधित्ससि नो प्रमादैः, शुद्धा न गुप्ती समितीश्च धत्से । तपो द्विधा नासि देहमाद्, अल्पेऽपि हेती दधसे कषायान् ॥७५॥ १३/३ परिषहान् नो सहसे न चोप
सर्गान्न शीलाङ्गधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ? ॥७६॥
१३ / ९ नाजीविकाप्रणयिनीतनयादिचिन्ता,
नो राजभीक्ष भगवत्समयं च वेत्सि । शुद्धे तथाऽपि चरणे चतसे न भिक्षो ! तत्ते परिग्रहभरो नरकार्थमेव ॥७७॥