________________
૧૮૧
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન - મંજૂષા १०/७ धर्मस्यावसरोऽस्ति पुद्गलपरावर्तेरनन्तैस्तवा
यातः सम्प्रति जीव ! हे प्रसहतो दुःखान्यनन्तान्ययम् । स्वल्पाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वार्हतो,
धर्मं कर्तुमिमं विना हि न हि ते दुःखक्षयः कर्हिचित् ॥६४॥ १०/८ गुणस्तुतीर्वाञ्छसि निर्गुणोऽपि,
सुखप्रतिष्ठादि विनाऽपि पुण्यम् । अष्टाङ्गयोगं च विनाऽपि सिद्धिः,
वातूलता काऽपि नवा तवात्मन् ! ॥६५॥ १०/४ कस्ते निरञ्जन ! चिरं जनरञ्जनेन,
धीमन् ! गुणोऽस्ति ? परमार्थदृशेति पश्य । तं रञ्जयाशु विशदैश्चरितैर्भवाब्धौ,
यस्त्वां पतन्तमबलं परिपातुमीष्टे ॥६६॥ १५/६ कृताकृतं स्वस्य तपोजपादि,
शक्तीरशक्तीः सुकृतेतरे च । सदा समीक्षस्व हृदाऽथ साध्ये,
यतस्व हेयं त्यज चाव्ययार्थी ॥६७॥ १०/१० किमर्दयन् निर्दयमङ्गिनो लघून्,
विचेष्टसे कर्मसु ही प्रमादतः ? । यदेकशोऽप्यन्यकृतार्दनः,
सहत्यनन्तशोऽप्यङ्ग्ययमर्दनं भवे ॥६८॥ १४/८ इहामुत्र च वैराय, दुर्वाचो नरकाय च ।
अग्निदग्धाः प्ररोहन्ति, दुर्वाग्दग्धा पुनर्न हि ॥६९॥