________________
૧૮૦
અધ્યાત્મલ્પદ્રુમ સૂક્ત- રત્ન- મંજૂષા
८/११ तीव्रा व्यथाः सुरकृता विविधाश्च यत्र,
क्रन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते ! बिभेषि ?,
यन्मोदसे क्षणसुखैर्विषयैः कषायी ॥५५॥ ८/१२ बन्धोऽनिशं वाहनताडनानि, क्षुत्तृड्दुरामातपशीतवाताः ।
निजान्यजातीयभयापमृत्युदुःखानि तिर्यक्ष्विति दुस्सहानि ॥५६॥ ८/१३ मुधाऽन्यदास्याभिभवाभ्यसूया, भियोऽन्तगर्भस्थितिदुर्गतीनाम् ।
एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ? ॥५७॥ ८/१४ सप्तभीत्यभिभवेष्टविप्लवानिष्टयोगगददुःसुप्तादिभिः ।
स्यात् चिरं विरसता नृजन्मनः, पुण्यतः सरसतां तदानय ॥५८॥ १/२६ स्निह्यन्ति तावद्धि निजा निजेषु, पश्यन्ति यावन् निजमर्थमेभ्यः ।
इमां भवेत्रापि समीक्ष्य रीति, स्वार्थे न कः प्रेत्यहिते यतेत ? ॥५९॥ १०/२२ यैः क्लिश्यसे त्वं धनबन्ध्वपत्य
यशःप्रभुत्वादिभिराशयस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते ?,
साध्य किमायुश्च ? विचारयैवम् ॥६०॥ १०/२१ ये पालिता वृद्धिमिताः सहैव, स्निग्धा भृशं स्नेहपदं च ये ते ।
यमेन तानप्यदयं गृहीतान्, ज्ञात्वाऽपि किं न त्वरसे हिताय ? ॥६१॥ १२/१५ पूर्णे तटाके तृषितः सदैव, भृतेऽपि गेहे क्षुधित: स मूढः ।
कल्पद्रुमे सत्यपि हि दरिद्रो, गुर्वादियोगेऽपि हि यः प्रमादी ॥६२॥ १२/१६न धर्मचिन्ता गुरुदेवभक्तिः , येषां न वैराग्यलवोऽपि चित्ते ।
तेषां प्रसूक्लेशफलः पशूनां, इवोद्भवः स्याद् उदरम्भरिणाम् ॥६३॥