________________
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા
૧૭૯
१२/१० मातापिता स्वः सुगुरुश्च तत्त्वात्,
प्रबोध्य यो योजयति शुद्धधर्मे । न तत्समोऽरि क्षिपते भवाब्धौ,
यो धर्मविघ्नादिकृतेश्च जीवम् ॥४९॥ ११/२ शैथिल्यमात्सर्यकदाग्रहक्रुधो
ऽनुतापदम्भाविधिगौरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः,
श्लाघार्थिता वा सुकृते मला इमे ॥५०॥ ७/१३ करोषि यत् प्रेत्यहिताय किञ्चित्,
कदाचिदल्पं सुकृतं कथञ्चित् । मा जीहरस्तन्मदमत्सराद्यैः,
विना च तन्मा नरकातिथिर्भूः ॥५१॥ ११/१३ दीपो यथाऽल्पोऽपि तमांसि हन्ति,
लवोऽपि रोगान् हरते सुधायाः । तृण्यां दहत्याशु कणोऽपि चाग्नेः,
धर्मस्य लेशोऽप्यमलस्तथांहः ॥५२॥ ११/१४ भावोपयोगशून्याः कुर्वन्, आवश्यिकी क्रियाः सर्वाः ।
देहक्लेशं लभसे, फलमाप्स्यसि नैव पुनरासाम् ।।५३॥ ८/१० दुर्गन्धतो यदणुतोऽपि पुरस्य मृत्युः,
आयूंषि सागरमितान्यप्यनुपक्रमाणि । स्पर्शः खरः क्रकचतोऽतितमामितश्च, दुःखावनन्तगुणितौ भृशशैत्यतापौ ॥५४॥