________________
૧૭૮
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન- મંજૂષા
११/५ प्रमोदसे स्वस्य यथाऽन्यनिर्मितैः,
स्तवैर्तथा चेत् प्रतिपन्थिनामपि । विगर्हणैः स्वस्य यथोपतप्यसे,
तथा रिपूणामपि चेत् ततोऽसि वित् ॥४४॥ ११/७ भवेन्न कोऽपि स्तुतिमात्रतो गुणी,
ख्यात्या न बह्वयाऽपि हितं परत्र च । तदिच्छुरीादिभिरायति ततो,
मुधाऽभिमानग्रहिलो निहंसि किम् ? ॥४३॥ ११/१० स्तुतैः श्रुतैर्वाऽप्यपरैर्निरीक्षितैः,
गुणस्तवात्मन् ! सुकृतैर्न कश्चन । फलन्ति नैव प्रकटीकृतैर्भुवो,
द्रुमा हि मूलैः निपतन्त्यपि त्वधः ॥४४॥ ११/११ तपःक्रियाऽऽवश्यकदानपूजनैः, शिवं न गन्ता गुणमत्सरी जनः ।
अपथ्यभोजी न निरामयो भवेद्, रसायनैरप्यतुलैः यदातुरः ॥४५॥ १२/१ तत्त्वेषु सर्वेषु गुरुः प्रधानं, हितार्थधर्मा हि तदुक्तिसाध्याः ।
श्रयंस्तमेवेत्यपरीक्ष्य मूढ ! धर्मप्रयासान् कुरुषे वृथैव ॥४६॥ १२/२ भवी न धर्मैरविधिप्रयुक्तैः, गमी शिवं येषु गुरुर्न शुद्धः ।
रोगी हि कल्यो न रसायनैस्तैः, येषां प्रयोक्ता भिषगेव मूढः ॥४७॥ १२/८ नानं सुसिक्तोऽपि ददाति निम्बकः,
पुष्टा रसैर्वन्ध्यगवी पयो न च । दुःस्थो नृपो नैव सुसेवितः श्रियं, धर्मं शिवं वा कुगुरुर्न संश्रितः ॥४८॥
श्रयंका