________________
૧૭૬
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન- મંજૂષા
७/१६ शत्रूभवन्ति सुहृदः कलुषीभवन्ति,
धर्मा यशांसि निचितायशसीभवन्ति । स्निह्यन्ति नैव पितरोऽपि च बान्धवाश्च,
लोकद्वयेऽपि विपदो भविनां कषायैः ॥२९॥ १४/१९ कषायान् संवृणु प्राज्ञ !, नरकं यदसंवरात् ।
महातपस्विनोऽप्यापुः, करटोत्करटादयः ॥३०॥ ७/१० धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो धेह्यरिषट्क एव ।
अथोपकारिष्वपि तद् भवार्तिकृत्कर्महन्मित्रबहिर्द्विषत्सु ॥३१॥ ७/११ अधीत्यनुष्ठानतपःशमाद्यान्, धर्मान् विचित्रान् विदधत् समायान् ।
न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं ताँश्च भवान्तरेषु ॥३२॥ ७/१२ सुखाय धत्से यदि लोभमात्मनो,
ज्ञानादिरत्नत्रितये विधेहि तत् । दुःखाय चेदन परत्र वा कृतिन् !,
परिग्रहे तद् बहिरान्तरेऽपि च ॥३३॥ ७/२ पराभिभूतौ यदि मानमुक्तिः, ततस्तपोऽखण्डमतः शिवं वा ।
मानादृतिः दुर्वचनादिभिश्चेत्, तपःक्षयात् तन्नरकादिदुःखम् ॥३४॥ ७/९ पराभिभूत्याऽल्पिकयाऽपि, कुप्यस्यधैरपीमां प्रतिकर्तुमिच्छन् ।
न वेत्सि तिर्यड्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्री ॥३५॥ ७/४ श्रुत्वाऽऽक्रोशान् यो मुदा पूरितः स्यात्,
लोष्टाद्यैर्यश्चाहतो रोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष, श्रेयो द्राग् लभेतैव योगी ॥३६॥