________________
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન - મંજૂષા
૧૭૫
९/१६ स्वाध्याययोगैश्चरणक्रियासु, व्यापारणैादशभावनाभिः ।
सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुन्ध्यात्॥२१॥ ९/१७ भावनापरिणामेषु, सिंहेष्विव मनोवने ।
सदा जाग्रत्सु दुर्ध्यान-शूकरा न विशन्त्यपि ॥२२॥ १४/२ मनः संवृणु हे विद्वन् !, असंवृतमना यतः ।
याति तन्दुलमत्स्यो द्राक्, सप्तमी नरकावनिम् ॥२३॥ १४/३ प्रसन्नचन्द्रराजर्षेः, मनःप्रसरसंवरौ ।
नरकस्य शिवस्यापि, हेतुभूतौ क्षणादपि ॥२४॥ ८/३ अधीतिनोऽर्चादिकृते जिनागमः,
प्रमादिनो दुर्गतिपापतेर्मुधा । ज्योतिर्विमूढस्य हि दीपपातिनो,
गुणाय कस्मै शलभस्य चक्षुषी ? ॥२५॥ ८/६ धिगागमैर्माद्यसि रञ्जयन् जनान्,
नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिम्भरिमात्रतां मुने !,
क्व ते ? क्व तत् ? क्वैष च ते ? भवान्तरे ॥२६॥ ८/९ अधीतिमात्रेण फलन्ति नागमाः,
समीहितैर्जीव ! सुखैर्भवान्तरे । स्वनुष्ठितैः किन्तु तदीरितैः खरो,
न यत् सिताया वहनश्रमात् सुखी ॥२७॥ ७/१५ कष्टेन धर्मो लवशो मिलत्यं, क्षयं कषायैर्युगपत् प्रयाति च ।
अतिप्रयत्नार्जितमर्जुनं ततः, किमज्ञ! ही हारयसे नभस्वता? ॥२८॥