________________
૧૭૪
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન -
२/ १ मुह्यसि प्रणयचारुगिरासु,
प्रीतितः प्रणयिनीषु कृतिस्त्वम् ! | किं न वेत्सि पततां भववाद्ध,
ता नृणां खलु शिला गलबद्धाः ? ॥१४॥
२/ ३ विलोक्य दूरस्थममेध्यमल्पं,
जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तेनैव विमूढ ! योषापुष्षु तत् किं कुरुषेऽभिलाषम् ? ॥१५॥
२/७ अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायाऽनृतवञ्चिका स्त्री,
મંજૂષા
संस्कारमोहात् नरकाय भुक्ता ॥ १६ ॥
२/८ निर्भूमिर्विषकन्दली गतदरी व्याघ्री निराह्वो महाव्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राशनिः । बन्धुस्नेहविघातसाहसमृषावादादिसंतापभूः,
प्रत्यक्षाऽपि च राक्षसीति बिरुदैर्व्याताऽऽगमे त्यज्यताम् ॥१७॥ ४/३ स्वर्गापवर्गौ नरकं तथाऽन्तर्मुहूर्तमात्रेण वशावशं यत् । ददाति जन्तो: सततं प्रयत्नाद्, वशं तदन्तःकरणं कुरुष्व ॥ १८ ॥ १४/१८ विषयेन्द्रियसंयोगाभावात् के के न संयता: ? । रागद्वेषमनोयोगाभावाद् ये तु स्तवीमि तान् ॥१९॥
९/१२ तपोजपाद्याः स्वफलाय धर्मा, न दुर्विकल्पैर्हतचेतसः स्युः । तत् खाद्यपेयैः सुभृतेऽपि गेहे, क्षुधातृषाभ्यां म्रियते स्वदोषात् ॥२०॥