________________
૧૭૧
પ્રશમરતિ સૂક્ત- રત્ન-મંજૂષા २४९ जिनवरवचनगुणगणं, सञ्चिन्तयतो वधाद्यपायांश्च ।
कर्मविपाकान् विविधान्, संस्थानविधीननेकांश्च ॥१९॥ २५१ नित्योद्विग्नस्यैवं, क्षमाप्रधानस्य निरभिमानस्य ।
धूतमायाकलिमलनिर्मलस्य, जितसर्वतृष्णस्य ॥१०॥ २५२ तुल्यारण्यकुलाकुल-विविक्तबन्धुजनशत्रुवर्गस्य ।
समवासीचन्दनकल्पन-प्रदेहादिदेहस्य ॥१०१॥ २५३ आत्मारामस्य सतः, समतृणमणिमुक्तलोष्ठकनकस्य ।
स्वाध्यायध्यानपरायणस्य, दृढमप्रमत्तस्य ॥१०२॥ २६४ क्षपकश्रेणिमुपगतः, स समर्थः सर्वकर्मिणां कर्म ।
क्षपयितुमेको यदि, कर्मसङ्क्रम: स्यात् परकृतस्य ॥१०३॥ २६७ मस्तकसूचिविनाशात्, तालस्य यथा ध्रुवो भवति नाशः ।
तद्वत् कर्मविनाशो, हि मोहनीयक्षये नित्यम् ॥१०४॥ २९५ देहमनोवृत्तिभ्यां, भवतः शारीरमानसे दुःखे ।
तदभावस्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् ॥१०५॥ ३०९ इत्येवं प्रशमरतेः, फलमिह स्वर्गापवर्गयोश्च शुभम् ।
सम्प्राप्यतेऽनगारैः, अगारिभिश्चोत्तरगुणाढ्यैः ॥१०६॥ ३११ सद्भिः गुणदोषज्ञैः, दोषानुत्सृज्य गुणलवा ग्राह्याः ।
सर्वात्मना च सततं, प्रशमसुखायैव यतितव्यम् ॥१०७॥ ३१३ सर्वसुखमूलबीजं, सर्वार्थविनिश्चयप्रकाशकरम् ।
सर्वगुणसिद्धिसाधनम्, अर्हच्छासनं जयति ॥१०८॥