________________
૧૨
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રન - મંજૂષા
અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા
मुनिसुन्दरसूरिकृतं अध्यात्मकल्पद्रुमप्रकरणं १/१ जयश्रीरान्तरारीणां, लेभे येन प्रशान्तितः ।
तं श्रीवीरजिनं नत्वा, रसः शान्तो विभाव्यते ॥१॥ १/१० भजस्व मैत्री जगदङ्गिराशिषु, प्रमोदमात्मन् गुणिषु त्वशेषतः ।
भवार्तिदीनेषु कृपारसं सदाऽप्युदासवृत्तिं खलु निर्गुणेष्वपि ॥२॥ यतः शुचीन्यप्यशुचीभवन्ति, कृम्याकुलात् काकशुनादिभक्ष्यात् । द्राग् भाविनो भस्मतया ततोऽङ्गात्, मांसादिपिण्डात् स्वहितं गृहाण ॥३॥ कारागृहाद् बहुविधाशुचितादिदुःखात्, निर्गन्तुमिच्छति जडोऽपि हि तद्विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्म
वातेन तद् दृढयितुं यतसे किमात्मन् ? ॥४॥ ५/८ मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन ।
देहेन चेदात्महितं सुसाध्यं, धर्मान्न किं तद्यतसेऽत्र मूढ ? ॥५॥ १/६ यदिन्द्रियार्थैः सकलैः सुखं स्यात्, नरेन्द्रचक्रित्रिदशाधिपानां ।
तद् बिन्दवत्येव पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व ॥६॥ १/२७ स्वप्नेन्द्रजालादिषु यद्वदाप्तैः, रोषश्च तोषश्च मुधा पदार्थैः ।
तथा भवेऽस्मिन् विषयैः समस्तैः, एवं विभाव्यात्मलयेऽवधेहि ॥७॥
५/२