________________
પ્રશમરતિ સૂક્ત - રત્ન - મંજૂષા
कुलरूपवचनयौवन- धनमित्रैश्वर्यसम्पदपि पुंसाम् । विनयप्रशमविहीना, न शोभते निर्जलेव नदी ॥८८॥ न तथा सुमहार्यैरपि, वस्त्राभरणैरलङ्कृतो भाति । श्रुतशीलमूलनिकषो, विनीतविनयो यथा भाति ॥ ८९ ॥ शास्त्रागमादृते न हितमस्ति, न च शास्त्रमस्ति विनयम् ऋते । तस्माच्छास्वागमलिप्सुना, विनीतेन भवितव्यम् ॥२०॥ गुर्वायत्ता यस्मात् शास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण, हितकाङ्क्षिणा भाव्यम् ॥९१॥ धन्यस्योपरि निपतति, अहितसमाचरणघर्मनिर्वापी | गुरुवदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥९२॥ दुष्प्रतिकारौ मातापितरौ, स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥९३॥ विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिः, विरतिफलं चाश्रवनिरोधः ॥९४॥ संवरफलं तपोबलम्, अथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् ॥९५॥ योगनिरोधाद् भवसन्ततिक्षयः, सन्ततिक्षयान्मोक्षः । तस्मात् कल्याणानां सर्वेषां भाजनं विनयः ॥९६॥ १३१ लोकः खल्वाधारः, सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरुद्धं च सन्त्याज्यम् ॥ ९७ ॥
२३२ धर्मावश्यकयोगेषु, भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणाम्, आराधको भवति ॥ ९८ ॥
990
६७
६८
६६
६९
७०
७१
७२
७३
७४
"
"