________________
પ્રશમરતિ સૂક્ત - રત્ન - મંજૂષા
१६९ विनयायत्ता गुणाः सर्वे, विनयश्च मार्दवायत्तः ।
यस्मिन् मार्दवमखिलं, स सर्वगुणभाक्त्वमाप्नोति ॥७७॥ १७० नानार्जवो विशुध्यति, न धर्ममाराधत्यशुद्धात्मा ।
धर्मादृते न मोक्षो, मोक्षात् परमं सुखं नान्यत् ॥७८॥ १७१ यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् ।
तद् भवति भावशीचानुपरोधाद् यत्नतः कार्यम् ॥७९॥ १७२ पञ्चाश्रवाद विरमणं, पक्षेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ॥८०॥ १७३ बान्धवधनेन्द्रियसुखत्यागात् त्यक्तभवविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थः त्यक्ताहङ्कारममकारः ॥८१॥ १७४ अविसंवादनयोगः, कायमनोवागजिह्मता चैव ।
सत्यं चतुर्विधं तच्च, जिनवरमतेऽस्ति नान्यत्र ॥८२॥ १७५ अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः ।
कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥८.३॥ १७६ प्रायश्चित्तध्याने, वैयावृत्त्यविनयावथोत्सर्गः ।
स्वाध्याय इति तपः, षट्प्रकारमभ्यन्तरं भवति ॥८४॥ १७७ दिव्यात् कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥८५॥
"
१७८ अध्यात्मविदो मूर्च्छा, परिग्रहं वर्णयन्ति निश्चयतः । तस्माद् वैराग्वेप्सोः, आकिञ्चन्यं परो धर्मः ॥८६॥
,
१७९ दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् । दृढरूढघनानामपि, भवत्युपशमोऽल्पकालेन ॥८७॥
"
૧૬૯