________________
૧૬૮
પ્રશમરતિ સૂક્ત- રત્ન- મંજૂષા
१५४ अन्योऽहं स्वजनात् परिजनाच्च, विभवात् शरीरकाच्चेति ।
यस्य नियता मतिरियं, न बाधते तं हि शोककलिः ॥६६॥ १५५ अशुचिकरणसामर्थ्याद्, आधुत्तरकारणाशुचित्वाच्च ।
देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः ॥१७॥ १५६ माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे ।
व्रजति सुतः पितृतां, भ्रातृतां पुनः शत्रुतां चैव ॥६८॥ १५७ मिथ्यादृष्टिरविरतः, प्रमादवान् यः कषायदण्डरुचिः ।
तस्य तथाऽऽस्वकर्मणि, यतेत तन्निग्रहे तस्मात् ॥६९॥ १५८ या पुण्यपापयोरग्रहणे, वाक्कायमानसी वृत्तिः ।
सुसमाहितो हितः, संवरो वरददेशितश्चिन्त्यः ॥७०॥ १५९ यद्वद्विशोषणादुपचितोऽपि, यत्नेन जीर्यते दोषः ।
तद्वत् कर्मोपचितं, निर्जरयति संवृतस्तपसा ॥७१॥ १६० लोकस्याधस्तिर्यग्, विचिन्तयेदूर्ध्वमपि च बाहल्यम् ।
सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥७२॥ १६१ धर्मोऽयं स्वाख्यातो, जगद्धितार्थं जिनैः जितारिगणैः ।
येऽत्र रतास्ते संसार-सागरं लीलयोत्तीर्णाः ॥७३॥ १६२ मानुष्यकर्मभूम्यार्यदेशकुलकल्यताऽऽयुरुपलब्धौ ।
श्रद्धाकथकश्रवणेषु, सत्स्वपि सुदुर्लभा बोधिः ॥७४॥ १६३ तां दुर्लभां भवशतैः, लब्ध्वाऽतिदुर्लभा पुनर्विरतिः ।
मोहाद् रागात् कापथविलोकनाद् गौरववशाच्च ॥७५॥ १६८ धर्मस्य दया मूलं, न चाक्षमावान् दयां समादत्ते ।
तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ॥७६॥