________________
પ્રશમરતિ સૂક્ત- રત્ન-મંજૂષા
૧૬૩
९६ संपर्कोद्यमसुलभं, चरणकरणसाधकं श्रुतज्ञानम् ।
लब्ध्वा सर्वमदहरं, तेनैव मदः कथं कार्यः ? ॥५५॥ जात्यादिमदोन्मत्तः, पिशाचवद् भवति दुःखितश्चेह ।
जात्यादिहीनतां, परभवे च निःसंशयं लभते ॥५६॥ १०० परपरिभवपरिवादाद, आत्मोत्कर्षाच्च बध्यते कर्म ।
नीचैर्गोत्रं प्रतिभवं, अनेकभवकोटिदुर्मोचम् ॥५७॥ १३५ व्रणलेपाक्षोपाङ्गवद्, असङ्गयोगभरमात्रयात्रार्थम् ।
पन्नग इवाभ्यवहरेद्, आहारं पुत्रपलवच्च ॥५८॥ १३७ कालं क्षेत्रं मात्रां, सात्म्यं द्रव्यगुरुलाघवं स्वबलम् ।
ज्ञात्वा योऽभ्यवहार्यं, भुङ्क्ते किं भेषजैस्तस्य ? ॥५९॥ १४७ तच्चिन्त्यं तद्भाष्यं, तत्कार्यं भवति सर्वथा यतिना ।
नात्मपरोभयबाधकम्, इह यत् परतश्च सर्वाद्धम् ॥६०॥ १४३ यज्ज्ञानशीलतपसाम्, उपग्रहं निग्रहं च दोषाणाम् ।
कल्पयति निश्चये यत्, तत् कल्प्यमकल्प्यमवशेषम् ॥६१॥ १४४ यत् पुनरुपघातकर, सम्यक्त्वज्ञानशीलयोगानाम् ।
तत् कल्प्यमप्यकल्प्यं, प्रवचनकुत्साकरं यच्च ॥६२॥ १५१ इष्टजनसंप्रयोगर्द्धि-विषयसुखसम्पदस्तथाऽऽरोग्यम् ।
देहश्च यौवनं जीवितं च, सर्वाण्यनित्यानि ॥६३॥ १५२ जन्मजरामरणभयैः, अभिद्रुते व्याधिवेदनाग्रस्ते ।
जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके ॥६४॥ १५३ एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते ।
तस्मादाकालिकहितम्, एकेनैवात्मनः कार्यम् ॥६५॥