________________
૧૬૬
પ્રશમરતિ સૂક્ત- રત્ન- મંજૂષા
२५६ या सर्वसुरवरद्धिः, विस्मयनीयाऽपि साऽनगारद्धेः ।
नार्धति सहस्रभागं, कोटिशतसहस्रगुणिताऽपि ॥४४॥ १४० यद्वत् पङ्काधारमपि, पङ्कजं नोपलिप्यते तेन ।
धर्मोपकरणधृतवपुरपि, साधुरलेपकस्तद्वत् ॥४५॥ १४१ यद्वत् तुरगः सत्स्वप्याभरणविभूषणेष्वनभिसक्तः ।
तद्वदुपग्रहवानपि, न सङ्गमुपयाति निर्ग्रन्थः ॥४६॥ ७६ केचित् सातर्द्धिरसातिगौरवात्, साम्प्रतक्षिणः पुरुषाः ।
मोहात् समुद्रवायसवद्, आमिषपरा विनश्यन्ति ॥४७॥ ज्ञात्वा भवपरिवर्ते, जातीनां कोटीशतसहस्रेषु । हीनोत्तममध्यत्वं, को जातिमदं बुधः कुर्याद् ? ॥४८॥ यस्याशुद्धं शीलं, प्रयोजनं तस्य किं कुलमदेन ? । स्वगुणाभ्यलङ्कृतस्य हि, किं शीलवतः कुलमदेन ? ॥४९॥ नित्यं परिशीलनीये, त्वङ्मांसाच्छादिते कलुषपूर्णे । निश्चयविनाशर्मिणि, रूपे मदकारणं किं स्यात् ? ॥५०॥ तस्मादनियतभावं, बलस्य सम्यग् विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां, न मदं कुर्याद् बलेनापि ॥५१॥ उदयोपशमनिमित्तौ, लाभालाभावनित्यको मत्वा । नालाभे वैकल्यं, न च लाभे विस्मयः कार्यः ॥५२॥ पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यम् ।
श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ? ॥५३॥ ९४ गर्वं परप्रसादात्मकेन, वाल्लभ्यकेन यः कुर्यात् ।
तं वाल्लभ्यकविगमे, शोकसमुदयः परामृशति ॥५४॥