________________
પ્રશમરતિ સૂક્ત - રત્ન - મંજૂષા
१२५ इष्टवियोगाप्रियसम्प्रयोगकाङ्क्षासमुद्भवं दुःखम् ।
प्राप्नोति यत् सरागो, न संस्पृशति तद् विगतरागः ॥ ३३ ॥ १२६ प्रशमितवेदकषायस्य, हास्यरत्यरतिशोकनिभृतस्य ।
भयकुत्सानिरभिभवस्य यत् सुखं तत् कुतोऽन्येषाम् ? ॥३४॥ १२७ सम्यग्दृष्टिर्ज्ञानी, ध्यानतपोबलयुतोऽप्यनुपशान्तः ।
तं लभते न गुणं यं प्रशमगुणमुपाश्रितो लभते ॥ ३५ ॥ १२८ नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य ।
यत्सुखमिहैव साधोः, लोकव्यापाररहितस्य ॥ ३६॥ २३५ स्वगुणाभ्यासरतमतेः, परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सर- रोषविषादैरधृष्यस्य ॥३७॥
૧૬૫
२३६ प्रशमाव्याबाधसुखाभिकाङ्क्षिणः, सुस्थितस्य सद्धर्मे ।
तस्य किमौपम्यं स्यात्, सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥३८॥ २३७ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् ।
प्रत्यक्षं प्रशमसुखं, न परवशं न च व्ययप्राप्तम् ॥३९॥ २३८ निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् ।
विनिवृत्तपराशानाम्, इहैव मोक्षः सुविहितानाम् ॥४०॥ २४० स्वशरीरेऽपि न रज्यति, शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैः, अव्यथितो यः स नित्यसुखी ॥ ४१ ॥ २४२ विषयसुखनिरभिलाषः, प्रशमगुणगणाभ्यलङ्कृतः साधुः । द्योतयति यथा न तथा, सर्वाण्यादित्यतेजांसि ॥४२॥ २५५ सातर्द्धिरसेष्वगुरुः, प्राप्यद्धिविभूतिमसुलभामन्यैः ।
सक्तः प्रशमरतिसुखे, न भजति तस्यां मुनिः सङ्गम् ॥४३॥