________________
૧૬૪
४६
एकैकविषयसङ्गाद्, रागद्वेषातुरा विनष्टास्ते ।
किं पुनरनियमितात्मा, जीव: पञ्चेन्द्रियवशार्त्तः ? ॥२२॥ न हि सोऽस्तीन्द्रियविषयो, येनाभ्यस्तेन नित्यतृषितानि । तृप्तिं प्राप्नुयुरक्षाण्यनेकमार्गप्रलीनानि ॥२३॥ तानेवार्थान् द्विषतः, तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं, न विद्यते किञ्चिदिष्टं वा ॥२४॥ यस्मिन्निन्द्रियविषये, शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥ २५ ॥ १०६ आदावत्यभ्युदया, मध्ये शृङ्गारहास्यदीप्तरसाः ।
४८
५२
પ્રશમરતિ સૂક્ત - રત્ન - મંજૂષા
५४
निकषे विषया बीभत्स-करुणलज्जाभयप्रायाः ॥२६॥ १०७ यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥२७॥ १०८ यद्वत् शाकाष्टादशम्, अन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं, विपाककाले विनाशयति ॥ २८ ॥ १०९ तद्वदुपचारसंभृत- रम्यक्रागरससेविता विषयाः ।
भवशतपरम्परास्वपि, दुःखविपाकानुबन्धकराः ॥२९॥ १२१ क्षणविपरिणामधर्मा, मर्त्यानामृद्धिसमुदयाः सर्वे ।
सर्वे च शोकजनकाः, संयोगा विप्रयोगान्ताः ॥३०॥ १२२ भोगसुखैः किमनित्यैः, भयबहुलैः काङ्क्षितैः परायत्तैः ? । नित्यमभयमात्मस्थं, प्रशमसुखं तत्र यतितव्यम् ॥३१॥ १२४ यत् सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं, मुधैव लभते विगतरागः ॥ ३२॥