________________
પ્રશમરતિ સૂક્ત- રત્ન-મંજૂષા
૧૬3
२५ क्रोधात् प्रीतिविनाशं, मानाद् विनयोपघातमाप्नोति ।
शाठ्यात् प्रत्ययहानिः, सर्वगुणविनाशनं लोभात् ॥११॥ क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥१२॥ श्रुतशीलविनयसन्दूषणस्य, धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् ? ॥१३॥ मायाशीलः पुरुषो, यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाऽप्यात्मदोषहतः ॥१४॥ सर्वविनाशाश्रयिणः, सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः, क्षणमपि दुःखान्तरमुपेयात् ? ॥१५॥ दुःखद्विट् सुखलिप्सुः, मोहान्धत्वाद् अदृष्टगुणदोषः ।
यां यां करोति चेष्टां, तया तया दुःखमादत्ते ॥१६॥ ४१ कलरिभितमधुरगान्धर्व-तूर्ययोषिद्विभूषणरवाद्यैः ।
श्रोत्रावबद्धहृदयो, हरिण इव विनाशमुपयाति ॥१७॥ गतिविभ्रमेङ्गिताकार-हास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः, शलभ इव विपद्यते विवशः ॥१८॥ स्नानाङ्गरागवर्तिक-वर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति ॥१९॥ मिष्टान्नपानमांसौदनादि-मधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो, मीन इव विनाशमुपयाति ॥२०॥ शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिः, गजेन्द्र इव बध्यते मूढः ॥२१॥