________________
१६०
શાંતસુધારસ સૂક્ત - રત્ન - મંજૂષા
१५/२ क्षणमुपधाय मनः स्थिरतायां, पिबत जिनागमसारम् रे ।
कापथघटनाविकृतविचारं, त्यजत कृतान्तमसारं रे ॥१०१॥ १५/३ परिहरणीयो गुरुरविवेकी, भ्रमयति यो मतिमन्दम् रे ।
सुगुरुवचः सकृदपि परिपीतं, प्रथयति परमानन्दं रे ॥१०२॥ १५/४ कुमततमोभरमीलितनयनं, किमु पृच्छत पन्थानम् रे ? ।
दधिबुद्धया नर ! जलमन्थन्यां, किमु निदधत मन्थानंरे ? ॥१०३॥ १५/७ सह्यत इह किं भवकान्तारे, गदनिकुरम्बमपारम् रे ?।
अनुसरताहितजगदुपकारं, जिनपतिमगदङ्कारं रे ॥१०४॥ १५/८ शृणुतैकं विनयोदितवचनं, नियतायतिहितरचनम् रे । रचयत कृतसुखशतसन्धानं, शांतसुधारसपानं रे ॥१०५॥
- माध्यस्थ्यभावना - मिथ्या शंसन् वीरतीर्थेश्वरेण, रोद्धं शेके न स्वशिष्यो जमालिः । अन्यः को वा रोत्स्यते केन पापात् ? तस्मादौदासीन्यमेवात्मनीनम् ॥१०६॥ अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किं, धर्मोद्योगं कारयेयुः प्रसह्य ? ।
दधुः शुद्धं किन्तु धर्मोपदेशं, यत्कुर्वाणा दुस्तरं निस्तरन्ति ॥१०७॥ १६/२ परिहर परचिन्तापरिवारं, चिन्तय निजमविकारं रे ।
तव किं ? कोऽपि चिनोति करीरं, चिनुतेऽन्यः सहकारं रे ॥१०८॥ १६/३ योऽपि न सहते हितमुपदेशं, तदुपरि मा कुरु कोपं रे ।
निष्फलया किं परजनतप्त्या, कुरुषे निजसुखलोपं रे? ॥१०९॥