________________
૧૫૯
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા १४/५ अदधुः केचन शीलमुदारं,
गृहिणोऽपि परिहृतपरदारम् । यश इह सम्प्रत्यपि शुचि तेषां,
विलसति फलिताफलसहकारम् ॥१५॥ १४/६ या वनिता अपि यशसा साकं,
कुलयुगलं विदधति सुपताकम् । तासां सुचरितसञ्चितराकं,
दर्शनमपि कृतसुकृतविपाकम् ॥१६॥ १४/७ तात्त्विकसात्त्विकसुजनवतंसाः,
केचन युक्तिविवेचनहंसाः । अलमकृषत किल भुवनाभोगं,
स्मरणममीषां कृतशुभयोगम् ॥१७॥ १४/८ इति परगुणपरिभावनसारं,
सफलय सततं निजमवतारम् । कुरु सुविहितगुणनिधिगुणगानं, विरचय शान्तसुधारसपानम् ॥१८॥
~ करुणाभावना ~~ उपायानां लक्षैः कथमपि समासाद्य विभवं, भवाभ्यासात्तत्र ध्रुवमिति निबध्नाति हृदयम् । अथाकस्मादस्मिन् विकिरति रजः क्रूरहृदयो, रिपुर्वा रोगो वा भयमुत जरा मृत्युरथवा ॥१९॥ शृण्वन्ति ये नैव हितोपदेशं, न धर्मलेशं मनसा स्पृशन्ति । रुजः कथङ्कारमथापनेयाः, स्तेषामुपायस्त्वयमेक एव ॥१०॥