SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ૧૫૮ શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા या रागरोषादिरुजो जनानां, शाम्यन्तु वाक्कायमनोद्रुहस्ताः । सर्वेऽप्युदासीनरसं रसन्तु, सर्वत्र सर्वे सुखिनो भवन्तु ॥८६॥ १३/२ विनय ! विचिन्तय मित्रतां । सर्वे ते प्रियबान्धवा, न हि रिपुरिह कोऽपि । मा कुरु कलिकलुषं मनो, निजसुकृतविलोपि ॥८७॥ १३/३ यदि कोपं कुरुते परो, निजकर्मवशेन । अपि भवता किं भूयते, हृदि रोषवशेन ? ॥४८॥ १३/४ अनुचितमिह कलहं सतां, त्यज समरसमीन ! । भज विवेककलहंसतां, गुणपरिचयपीन ! ॥८९॥ १३/६ सकृदपि यदि समतालवं, हृदयेन लिहन्ति । विदितरसास्तत इह रति, स्वत एव वहन्ति ॥१०॥ १३/८ परमात्मनि विमलात्मनां, परिणम्य वसन्तु । विनय ! समामृतपानतो, जनता विलसन्तु ॥११॥ ~ प्रमोदभावना ~ जिह्वे ! प्रवीभव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना, भूयास्तामन्यकीर्तिश्रुतिरसिकतया मेऽद्य कर्णौ सुकर्णी । वीक्ष्यान्यप्रौढलक्ष्मी द्रुतमुपचिनुतं लोचने रोचनत्वं, संसारेऽस्मिन्नसारे फलमिति भवतां जन्मनो मुख्यमेव ॥१२॥ प्रमोदमासाद्य गुणैः परेषां, येषां मतिर्मज्जति साम्यसिन्धौ । देदीप्यते तेषु मनःप्रसादो, गुणास्तथैते विशदीभवन्ति ॥१३॥ १४/३ येषां मन इह विगतविकारं, ये विदधति भुवि जगदुपकारं । तेषां वयमुचिताचरितानां, नाम जपामो वारंवारम् ॥१४॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy