________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૫૭
६ यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरम्,
यावत्त्वक्षकदम्बकं स्वविषयज्ञानावगाहक्षमम् । यावच्चायुरभङ्गुरं निजहिते तावबुधैः यत्यतां,
कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ? ॥७९॥ १२/२ चक्रिभोज्यादिरिव नरभवो दुर्लभो, भ्राम्यतां घोरसंसारकक्षे ।
बहुनिगोदादिकायस्थितिव्यायते, मोहमिथ्यात्वमुखचोरलक्षे ॥८०॥ १२/३ लब्ध इह नरभवोऽनार्यदेशेषु यः, स भवति प्रत्युतानर्थकारी ।
जीवहिंसादिपापाश्रवव्यसनिनां, माघवत्यादिमार्गानुसारी ॥८१॥ १२/४ आर्यदेशस्पृशामपि सुकुलजन्मनां, दुर्लभा विविदिषा धर्मतत्त्वे ।
रतपरिग्रहभयाहारसज्ञातिभिः, हन्त ! मग्नं जगदुःस्थितत्वे ॥४२॥ १२/५ विविदिषायामपि श्रवणमतिदुर्लभं,
धर्मशास्त्रस्य गुरुसन्निधाने। वितथविकथादितत्तद्रसावेशतो,
विविधविक्षेपमलिनेऽवधाने ॥४३॥ १२/८ एवमतिदुर्लभात् प्राप्य दुर्लभतमं, बोधिरत्नं सकलगुणनिधानम् । कुरु गुरुप्राज्यविनयप्रसादोदितं, शान्तरससरसपीयूषपानम् ॥८४॥
- मैत्रीभावना - सर्वत्र मैत्रीमुपकल्पयात्मन् !, चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियद्दिनस्थायिनि जीवितेऽस्मिन्, किं खिद्यते वैरिधिया परस्मिन् ? ॥८५॥