________________
૧૫૬
શાંતસુધારસ સૂક્ત- રત્ન-મંજૂષા
५ सोऽयं ज्ञेयः पुरुषो लोकनामा,
षद्रव्यात्माऽकृत्रिमोऽनाद्यनन्तः । धर्माधर्माकाशकालात्मसज्ञैः,
द्रव्यैः पूर्णः सर्वतः पुद्गलैश्च ॥७२॥ ११/४ विनय ! विभावय शाश्वतं हृदि लोकाकाशम् ।
एकरूपमपि पुद्गलैः, कृतविविधविवर्तम् ।
काञ्चनशैलशिखरोन्नतं, क्वचिदवनतगर्तम् ॥७३॥ ११/५ क्वचन तविषमणिमन्दिरैः, उदितोदितरूपम् ।
घोरतिमिरनरकादिभिः, क्वचनातिविरूपम् ॥७४॥ ११/६ क्वचिदुत्सवमयमुज्ज्वलं, जयमङ्गलनादम् ।
क्वचिदमन्दहाहारवं, पृथुशोकविषादम् ॥५॥ ११/७ बहुपरिचितमनन्तशो, निखिलैरपि सत्त्वैः ।
जन्ममरणपरिवर्तिभिः, कृतमुक्तममत्वैः ॥७६॥ ११/६ इह पर्यटनपराङ्मुखाः, प्रणमत भगवन्तम् । शान्तसुधारसपानतो, धृतविनयमवन्तम् ॥७७॥
~ बोधिदुर्लभभावना ~ यस्माद्विस्मापयितसुमनःस्वर्गसंपविलासप्राप्तोल्लासाः पुनरपि जनिः सत्कुले भूरिभोगे । ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्नं, तहुष्प्रापं भृशमुरुधियः ! सेव्यतां बोधिरत्नम् ॥७८॥