________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૫૫
७ प्राज्यं राज्यं सुभगदयिता नन्दना नन्दनानां,
रम्यं रूपं सरसकविताचातुरी सुस्वरत्वम् । नीरोगत्वं गुणपरिचयः सज्जनत्वं सुबुद्धिः,
किं नु ब्रूमः फलपरिणति धर्मकल्पद्रुमस्य ? ॥६५॥ १०/२ पालय पालय मां जिनधर्म !
सिञ्चति पयसा जलधरपटली, भूतलममृतमयेन ।
सूर्याचन्द्रमसावुदयेते, तव महिमाऽतिशयेन ॥६६॥ १०/३ निरालम्बमियमसदाधारा, तिष्ठति वसुधा येन ।
तं विश्वस्थितिमूलस्तम्भं, त्वां सेवे विनयेन ॥६७॥ १०/४ बन्धुरबन्धुजनस्य दिवानिशम्, असहायस्य सहायः ।
भ्राम्यति भीमे भवगहनेऽङ्गी, त्वां बान्धवमपहाय ॥१८॥ १०/७ द्रङ्गति गहनं जलति कृशानुः, स्थलति जलधिरचिरेण ।
तव कृपयाऽखिलकामितसिद्धिः, बहुना किं नु परेण ? ॥६९॥ १०/८ सर्वतन्त्रनवनीत ! सनातन !, सिद्धिसदनसोपान !। जय जय विनयवतां प्रतिलम्भितशान्तसुधारसपान ! ॥७०॥
- लोकस्वरूपभावना ~ यो वैशाखस्थानकस्थायिपादः, श्रोणीदेशे न्यस्तहस्तद्वयश्च । कालेऽनादौ शश्वदूर्ध्वंदमत्वाद्, बिभ्राणोऽपि श्रान्तमुद्रामखिन्नः ॥७१॥
x