________________
१५४
निर्जराभावना
निकाचितानामपि कर्मणां वद्, गरीयसां भूधरदुर्धराणाम् । विभेदने वज्रमिवातितीव्रं, नमोऽस्तु तस्मै तपसेऽद्भुताय ॥५७॥ किमुच्यते सत्तपसः प्रभावः ?, कठोरकर्मार्जितकिल्बिषोऽपि । दृढप्रहारीव निहत्य पापं यतोऽपवर्गं लभतेऽचिरेण ॥५८॥ २१ विभावयविनय! तपोमहिमानं विभावय विनय! तपोमहिमानं ।
"
શાંતસુધારસ સૂક્ત - રત્ન - મંજૂષા
६
"
बहुभवसञ्चितदुष्कृतममुना, लभते लघु लघिमानम् ॥५९॥
९/२ याति घनाऽपि घनाघनपटली, खरपवनेन विरामम् । भजति तथा तपसा दुरिताली, क्षणभङ्गुरपरिणामम् ॥६०॥ ९/३ वाञ्छितमाकर्षति दूरादपि रिपुमपि व्रजति वयस्यम् । तप इदमाश्रय निर्मलभावाद्, आगमपरमरहस्यम् ॥६.१ ॥ ९/६ शमयति तापं गमयति पापं, रमयति मानसहंसम् । हरति विमोहं दूरारोह, तप इति विगताशंसम् ॥६२॥ ९/८ कर्मगदीषथमिदमिदमस्य च जिनपतिमतमनुपानम् । विनय ! समाचर सौख्यनिधानं, शान्तसुधारसपानम् ॥६३॥
"
धर्मस्वाख्यात भावना
त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं, योऽत्रामुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । येनानर्थकदर्थना निजमहः सामर्थ्यतो व्यथिता, तस्मै कारुणिकाय धर्मविभवे भक्तिप्रणामोऽस्तु मे ॥६४॥