________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૫૩
७/५ उदितकषाया रे, विषयवशीकृता, यान्ति महानरकेषु ।
परिवर्तन्ते रे, नियतमनन्तशो, जन्मजरामरणेषु ॥४७॥ ७/६ मनसा वाचा रे, वपुषा चञ्चला, दुर्जयदुरितभरेण ।
उपलिप्यन्ते रे, तत आश्रवजये, यततां कृतमपरेण ॥४८॥ ७/८ मोदस्वैवं रे, साश्रवपाप्मनां, रोधे धियमाधाय । शान्तसुधारसपानमनारतं, विनय ! विधाय विधाय ॥४९॥
~~ संवरभावना - संयमेन विषयाविरतत्वे, दर्शनेन वितथाभिनिवेशम् । ध्यानमार्त्तमथ रौद्रमजस्त्रं, चेतसः स्थिरतया च निरुन्ध्याः ॥५०॥ क्रोधं क्षान्त्या मार्दवेनाभिमानं, हन्या मायामार्जवेनोज्ज्वलेन । लोभं वारां राशिरौद्रं निरुन्ध्याः , संतोषेण प्रांशुना सेतुनेव ॥५१॥ शृणु शिवसुखसाधनसदुपायं, शृणु शिवसुखसाधनसदुपायम् ।
ज्ञानादिकपावनरत्नत्रयपरमाराधनमनपायम् ॥५२॥ ८/२ विषयविकारमपाकुरु दूरं, क्रोधं मानं सहमायम् ।
लोभं रिपुं च विजित्य सहेलं, भज संयमगुणमकषायम् ॥५३॥ ८/६ ब्रह्मव्रतमङ्गीकुरु विमलं, बिभ्राणं गुणसमवायम् ।
उदितं गुरुवदनादुपदेशं, संगृहाण शुचिमिव रायम् ॥५४॥ ८/७ संयमवाङ्मयकुसुमरसैरति-सुरभय निजमध्यवसायम् ।
चेतनमुपलक्षय कृतलक्षण-ज्ञानचरणगुणपर्यायम् ॥५५॥ ८/८ वदनमलङ्कुरु पावनरसनं, जिनचरितं गायं गायम् ।
सविनय ! शान्तसुधारसमेनं, चिरं नन्द पायं पायम् ॥५६॥