________________
૧૫૨
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
६/२ भजति सचन्द्रं शुचिताम्बूलं, कर्तुं मुखमारुतमनुकूलम् ।
तिष्ठति सुरभि कियन्तं कालं, खमसुगन्धि जुगुप्सितलालम् ॥३८॥ ६/३ द्वादश नव रन्ध्राणि निकाम, गलदशुचीनि न यान्ति विरामम् ।
यत्र वपुषि तत् कलयसि पूतं, मन्ये तव नूतनमाकूतम् ॥३९॥ ६/५ अशितमुपस्करसंस्कृतमन्नं, जगति जुगुप्सां जनयति हन्नम् ।
पुंसवनं धैनवमपि लीढं, भवति विगर्हितमति जनमीढम् ॥४०॥ ६/७ केवलमलमयपुद्गलनिचये, अशुचीकृतशुचिभोजनसिचये ।
वपुषि विचिन्तय परमिह सारं, शिवसाधनसामर्थ्यमुदारम् ॥४१॥ ६/८ येन विराजितमिदमतिपुण्यं, तच्चिन्तय चेतन ! नैपुण्यम् । विशदागममधिगम्य निपानं, विरचय शान्तसुधारसपानम् ॥४२॥
~ आश्रवभावना ~~ मिथ्यात्वाविरतिकषाययोगसज्ञाः, चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः । कर्माणि प्रतिसमयं स्फुटरमीभिः, बध्नन्तो भ्रमवशतो भ्रमन्ति जीवाः ॥४३॥ इन्द्रियाव्रतकषाययोगजाः, पञ्च पञ्च चतुरन्वितास्त्रयः ।
पञ्चविंशतिरसत्क्रिया इति, नेत्रवेदपरिसंख्ययाऽप्यमी ॥४४॥ ७/३ अविरतचित्ता रे, विषयवशीकृता, विषहन्ते विततानि ।
इहपरलोके रे, कर्मविपाकजान्यविरलदुःखशतानि ॥४५॥ ७/४ करिझषमधुपा रे, शलभमृगादयो, विषयविनोदरसेन ।
हन्त लभन्ते रे, विविधा वेदना, बत परिणतिविरसेन ॥४६॥