________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૫૧
दुष्टाः कष्टकदर्थना कति न ताः सोढास्त्वया संसृतौ ?, तिर्यङ्नारकयोनिषु प्रतिहतश्छिन्नो विभिन्नो मुहुः । सर्वं तत्परकीयदुर्विलसितं विस्मृत्य तेष्वेव हा !,
रज्यन् मुह्यसि मूढ ! तानुपरचन्, आत्मन्न किं लज्जसे ? ॥३०॥ ५/२ येन सहाश्रयसेऽतिविमोहाद्, इदमहमित्यविभेदम् ।
तदपि शरीरं नियतमधीरं, त्यजति भवन्तं धृतखेदम् ॥३१॥ ५/३ जन्मनि जन्मनि विविधपरिग्रहम्, उपचिनुषे च कुटुम्बम् ।
तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम् ॥३२॥ ५/५ पथि पथि विविधपथैः पथिकैः सह, कुरुते कः प्रतिबन्धम् ? ।
निजनिजकर्मवशैः स्वजनैः सह, किं कुरुषे ममताबन्धम् ? ॥३३॥ ५/६ प्रणयविहीने दधदभिष्वङ्गं, सहते बहुसन्तापम् ।
त्वयि निःप्रणये पुद्गलनिचये, वहसि मुधा ममतातापम् ॥३४॥ ५/८ भज जिनपतिमसहायसहायं, शिवगतिसुगमोपायम् । पिब गदशमनं परिहृतवमनं, शान्तसुधारसमनपायम् ॥३५॥
___- अशुचिभावना - कर्पूरादिभिरचितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त ! पिशुनः सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी वित्रता, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥३६॥ यदीयसंसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेः वपुषोऽस्य शौचसंकल्पमोहोऽयमहो ! महीयान् ॥३७॥