________________
૧૫o
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા ३/८ सकलसंसारभयभेदकं, जिनवचो मनसि निबधान रे ।
विनय ! परिणमय निःश्रेयसं, विहितशमरससुधापान रे ॥२१॥
~ एकत्वभावना -- कृतिनां दयितेति चिन्तनं, परदारेषु यथा विपत्तये । विविधार्तिभयावहं तथा, परभावेषु ममत्वभावनम् ॥२२॥ एकता समतोपेताम्, एनामात्मन् ! विभावय ।
लभस्व परमान्द-सम्पदं नमिराजवत् ॥२३॥ ४/१ विनय ! चिन्तय वस्तुतत्त्वं, जगति निजमिह कस्य किम् ? ।
भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम् ? ॥२४॥ ४/२ एक उत्पद्यते तनुमान्, एक एव विपद्यते ।।
एक एव हि कर्म चिनुते, सैककः फलमश्नुते ॥२५॥ ४/३ यस्य यावान् परपरिग्रहः, विविधममतावीवधः ।
जलधिविनिहितपोतयुक्त्या, पतति तावदसावधः ॥२६॥ ४/४ स्वस्वभावं मद्यमुदितो, भुवि विलुप्य विचेष्टते ।
दृश्यतां परभावघटनात्, पतति विलुठति जृम्भते ॥२७॥ ४/८ रुचिरसमताऽमृतरसं क्षणम्, उदितमास्वादय मुदा । विनय ! विषयातीतसुखरस-रतिरुदञ्चतु ते सदा ॥२८॥
~ अन्यत्वभावना ~~ यस्मै त्वं यतसे बिभेषि च यतो यत्रानिशं मोदसे, यद्यच्छोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे । स्निग्धो येषु निजस्वभावममलं निर्लोठ्य लालप्यसे, तत्सर्वं परकीयमेव भगवन् ! आत्मन्न किञ्चित्तव ॥२९॥