________________
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
૧૪૯
२/६ सृजतीमसितशिरोरुहललितं, मनुजशिरः सितपलितम् ।
को विदधानां भूघनमरसं, प्रभवति रोर्बु जरसम् ?॥१२॥ २/७ उद्यत उग्ररुजा जनकायः, कः स्यात्तत्र सहायः ? ।
एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम् ॥१३॥ २/८ शरणमेकमनुसर चतुरङ्गं, परिहर ममतासङ्गम् । विनय ! रचय शिवसौख्यनिधानं, शान्तसुधारपानम् ॥१४॥
~ संसारभावना ~~ इतो लोभः क्षोभं जनयति दुरन्तो दव इवोल्लसल्लाभाम्भोभिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेव विफला, कथं स्वस्थैः स्थेयं विविधभयभीमे भववने ? ॥१५॥ सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः । सुखाभासैर्यावत् स्पृशति कथमप्यर्तिविरति,
जरा तावत्कायं कवलयति मृत्योः सहचरी ॥१६॥ ३/१ कलय संसारमतिदारुणं, जन्ममरणादिभयभीत ! रे ।
मोहरिपुणेह सगलग्रह, प्रतिपदं विपदमुपनीत ! रे ॥१७॥ ३/२ घटयसि क्वचन मदमुन्नतेः, क्वचिदहो ! हीनतादीन रे ।
प्रतिभवं रूपमपरापरं, वहसि बत कर्मणाऽऽधीन ! रे ॥१८॥ ३/५ व्रजति तनयोऽपि ननु जनकतां, तनयतां व्रजति पुनरेष रे ।
भावयन् विकृतिमिति भवगतेः, त्यजतमां नृभवशुभशेष रे ॥१९॥ ३/७ दर्शयन् किमपि सुखवैभवं, संहरंस्तदथ सहसैव रे ।
विप्रलम्भयति शिशुमिव जनं, कालबटुकोऽयमत्रैव रे ॥२०॥