________________
૧૪૮
શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા
१/८ कवलयन्नविरतं जङ्गमाजङ्गमं,
जगदहो ! नैव तृप्यति कृतान्तः । मुखगतान् खादतस्तस्य करतलगतैः,
न कथमुपलप्स्यतेऽस्माभिरन्तः ? ॥६॥ १/७ नित्यमेकं चिदानन्दमयमात्मनो,
रूपमभिरूप्य सुखमनुभवेयम् । प्रशमरसनवसुधापानविनयोत्सवो, भवतु सततं सतामिह भवेऽयम् ॥७॥
~ अशरणभावना - ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः । तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठाद्, अत्राणाः शरणाय हा ! दश दिशः प्रेक्षन्त दीनाननाः ॥८॥ तावदेव मदविभ्रममाली, तावदेव गुणगौरवशाली । यावदक्षमकृतान्तकटाक्षः, नेक्षितो विशरणो नरकीटः ॥९॥ स्वजनजनो बहुधा हितकामं, प्रीतिरसैरभिरामम् । मरणदशावशमुपगतवन्तं, रक्षति कोऽपि न सन्तम् ॥ विनय ! विधीयतां रे, श्रीजिनधर्मः शरणम् ।
अनुसन्धीयतां रे, शुचितरचरणस्मरणम् ॥१०॥ २/४ विद्यामन्त्रमहौषधिसेवां, सृजतु वशीकृतदेवाम् ।
रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् ॥११॥