________________
ચતિદિનકૃત્ય સૂક્ત- રત્ન- મંજૂષા
३०० अनापातसंलोकं, परस्यानौपघातिकम् ।
समं चाशुषिरं चैवाचिरकालकृतञ्च यत् ॥७७॥ ३०१ विस्तीर्णं दूरावगाढं, अनासन्नं बिलोज्झितम् ।
प्राणबीजत्रसत्यक्तं, स्थण्डिलं दशधा मतम् ॥७८॥ ३१३ पूर्वोत्तरयोर्न देयं, पृष्ठं यस्मादवर्णवादः स्यात् ।
पवने पृष्ठगतोऽऑसि, स्युना॑णस्य विड्गन्धात् ॥७९॥ ३१४ वर्धिष्णुच्छायायां, संसक्तपुरीषमुत्सृजेत्साधुः ।
तदभावे तूष्णेऽपि, व्युत्सृज्य मुहूर्तकं तिष्ठेत् ॥८०॥ ३२८ उपवासिनाऽखिलोपधि-पर्यन्ते चोलपट्टकः प्रेक्ष्यः ।
अन्यैस्तु सर्वप्रथम, एव स पश्चाद्रजोहरणम् ॥८१॥ ३३४ प्रेक्षां कुर्वन् प्रत्याख्यानं, दत्ते यदि प्रमत्तो वा ।
वाचयति पठति च तथा, षट्कायविराधको भवति ॥८२॥ ३५२ यतिनो यतिनः प्रत्येकं, कुड्यस्य च यतेभ्य रचनायाम् ।
यतिनाञ्च पात्रकाणां, हस्तो हस्तोऽन्तरे कार्यः ॥८३॥ ३५६ उपधानीकृतबाहुः, पादौ कुर्कुटिवदाकुञ्च्य ।
असमर्थो भूमितलं, प्रमृज्य विधिना प्रसारयति ॥८४॥ ३५७ किल कुर्कुटी प्रसूताऽपत्यत्राणाय पादयुग्ममपि ।
आकुञ्च्य स्वपिति सदा, यदा तु पादौ परिक्लान्तौ ॥८५॥ ३५८ गगने तदा पुनरपि, प्रसार्य संस्थापयेत् प्रयत्नेन ।
कुर्कुट्या दृष्टान्तं, तथाऽनगारो मनसिकृत्य ॥८६॥ ३५९ परिश्रान्तौ निजचरणौ, उत्पाट्य स्थापयेद् गगनभागे ।
प्रतिलिख्य पदस्थानं, तत्र स्थापयति यत्नेन ॥८७॥