________________
યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા
૧૨૩
२७५ इति हेतुषट्कतोद्या भिक्षाऽपि, न भुञ्जीत हेतुभिः षड्भिः ।
रोगोपशमनिमित्तं, राजाद्युपसर्गसहनार्थम् ॥६६॥ २७६ तुर्यव्रतरक्षायै, वर्षादिषु जन्तुपालनकृते च ।
तपसे संन्यासादौ, तनुव्यवच्छेदनार्थञ्च ॥६७॥ २७७ प्रथमप्रहरानीतं यतीनाम्, अशनादि कल्पते भोक्तुम् ।
आयामत्रयमुपरि तु, कालातिक्रान्तता तस्य ॥६८॥ २७८ तापक्षेत्राभावे, यदात्तमशनाद्यनुक्षते तरणौ ।
तद्धि क्षेत्रातीतं, न युज्यते जेमितुं यतीनाम् ॥६९॥ २७९ क्रोशद्वितयादग्, आनेतुं कल्पतेऽशनप्रभृति ।
तत्परतोऽप्यानीतं, मार्गातीतमिति परिहार्यम् ॥७०॥ २८१ भक्तमशुद्धं कारण-जातेनाप्तमपि भोजनावसरे ।
त्यजति यदि तदा शुद्धो, भुञ्जानो लिप्यते नियतम् ॥७१॥ २८२ अर्धमशनस्य सव्यञ्जनस्य, देहे जलस्य चांशो द्वौ ।
न्यूनस्य षष्ठभागं, कुर्यादनिलानिरोधार्थम् ॥७२॥ २८३ भुङ्क्ते स्वादमगृह्णन्, अविलम्बितमद्रुतं विशब्दं च ।
केसरिभक्षितदृष्टान्ततः, कटप्रतरगत्या वा ॥७३॥ २८६ भुक्ते द्विदले निर्लेप्य, मुखं कर पात्रकञ्च दध्यादि ।
पात्रान्तरेण वाऽश्नाति, भोज्यमादौ सदा मधुरे ॥७४॥ २८७ परिशाटिरहितमभ्यवहरेत्, तथा सर्वमन्नमरसमपि ।
न ज्ञायते यथा भोजनप्रदेशः, तदितरो वा ॥५॥ २९९ पूज्ये उत्तरपूर्वे, निशाचरेभ्यो भयञ्च याम्यायाम् ।
मुक्त्वा दिशां त्रयमिदं, स्थण्डिलभूप्रेक्षणं कुर्यात् ॥७६॥