________________
યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા
૧૫
३६३ उद्धर्तना-परावर्तना, यदि च कुर्वते तदा मुनयः ।।
प्रथमं शरीरकं प्रतिलिखन्ति, पश्चाच्च संस्तरकम् ॥४८॥ ३६४ कृत्वा शरीरचिन्तां, ईर्यापथिकीप्रतिक्रामणपूर्वम् ।
कुर्वन्ति स्वाध्यायं, गाथात्रयमानमधिकं वा ॥८९॥ ३७७ ऋतुबद्ध कालमपास्य, जीवघातादिदोषसम्भवतः ।
बहुवर्षासमये क्षालयन्त्युपधिमखिलामपि यत्नात् ॥१०॥ ३७८ सलिलाभावे तु जघन्यतोऽपि, नियमेन पात्रनिर्योगः ।
आचार्यग्लानानां, उपधिर्मलिनः सदा क्षाल्यः ॥११॥ ३७९ आचार्याणां मलिनोपधि-परिभोगे ह्यवर्णवादः स्यात् ।
ग्लानानां तद्वसन-प्रावरणेऽजीर्णताऽऽपत्तिः ॥१२॥ ३८३ या चक्रवालसामाचारी, सा कालगोचरा दशधा ।
इच्छाकारो मिथ्याकारश्च, तथा तथाकारः ॥१३॥ ३८४ आवश्यकी च नैषेधिकी, तथा पृच्छना भवेत् षष्ठी ।
प्रतिपृच्छा च तथा छन्दनाऽपि च निमन्त्रणा नवमी ॥१४॥ ३८५ उपसम्पच्चेति दशधा, तत्राद्या यदिच्छया करणम् ।
न बलाभियोगपूर्वकं, इच्छाकारप्रयोगोऽतः ॥१५॥ ३८६ संयमयोगे वितथाचरणे, मिथ्येदमिति विधानं यत् ।
मिथ्यादुष्कृतदानं, मिथ्याकारः स विज्ञेयः ॥१६॥ ३८७ सूरिर्बहुश्रुतो नैष्ठिकश्च, यद्वचनादिकं दत्ते ।
शिष्याय तथैव तदिति, निश्चयकरणं तथाकारः ॥१७॥ ३८८ आवश्यकी विधेया, गमने नैषेधिकी पुनर्विशता ।
कार्यं प्रविधातुमभीप्सितं, आपृच्छा गुरोः कार्या ॥१८॥