________________
૧૧૮
યતિદિનકૃત્ય સૂક્ત- રત્ન- મંજૂષા
प्रातः प्रेक्षाद्वितये विहिते, वसतिः प्रमृज्यते प्रकटम् ।
अङ्गप्रेक्षाऽनन्तरं, अपराहे मृज्यते वसतिः ॥११॥ ४६ दृष्टिप्रेक्षणपूर्वं प्रमार्जयेद्, दण्डकाँश्च कुड्यं च ।
भूमिञ्च रजोहरणेनाभिग्रहिकस्तदितरो वा ॥१२॥ प्रतिलेखनाऽत्र कथिता, यत् किल दृष्ट्या निरीक्षणं क्रियते । वसनरजोहरणाभ्यां, प्रमार्जनामाहुरर्हन्तः ॥१३॥ मण्डल्यः सप्तैताः, सूत्रेष्वर्थे च भोजने काले । आवश्यकं विदधतां, स्वाध्याये संस्तरेऽभिहिताः ॥१४॥ कुर्वन्ति स्वाध्यायं, गीतार्था यदुपयोगवेलायां । स हि दर्शितोऽधुना, तैराचारः सूत्रपौरुष्याः ॥१५॥ गुरवे निवेदिते बहु-परिपूर्णा पौरुषीति लघुमुनिना ।
पादोनप्रहरे सति, पर्यन्तं सूत्रपौरुष्याः ॥१६॥ ५८ सूत्रेऽनधीतीनां, सूत्रगोचरः पौरुषी द्वितीयाऽपि ।
अपवादेऽर्थस्यैव, प्रथमाऽपि गृहीतसूत्राणाम् ॥१७॥ प्रतिलेखनाक्षणोऽयं, साध्यो यत्नेन लग्नसमय इव । अस्मिन् काले स्फिटिते, प्रायश्चित्तं हि कल्याणम् ॥१८॥ तिष्ठति किमिह भुजङ्गो ?, यत् प्रेक्ष्यते एवमिति विवदमानः ।
अत्र किल कोऽपि शैक्षो, देवतया शिक्षयाञ्चक्रे ॥१९॥ ६३ पूर्वभवविहितसम्यग्भावप्रतिलेखनामनुस्मृत्य ।
वल्कलचीरिकुमारो, जडोऽपि जातिस्मृति लेभे ॥२०॥ पात्रं पात्रकबन्धः, पात्रस्थापनकपात्रकेसरिके । पटलानि रजस्त्राणं च, गोपुच्छकः पात्रनिर्योगः ॥२१॥