________________
યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા
१
९
११
१४
२०
२१
३८
४२
४३
४४
૧૧૭
ભવભાવના સૂક્ત - રત્ન - મંજૂષા हरिप्रभसूरिकृतं यतिदिनकृत्यं
श्रीवीरः श्रेयसे यस्य, चित्रं स्नेहदशाऽत्यये । सद्ध्यानदीपोऽदिपिष्ट, जलसङ्गमविप्लवात् ॥१॥ अत्र क्रमात् प्रतिलिखेत्, मुखपटधर्मध्वजौ निषद्ये द्वे । पट्टककल्पत्रितये, संस्तारकोत्तरपट्टौ च दश ॥२॥ सम्पातिमसत्त्वरजो-रेणूनां रक्षणाय मुखवस्त्रम् । वसतेः प्रमार्जनार्थं, मुखनासं तेन बध्नन्ति ॥३॥ आदानत्वग्वर्तन-निक्षेपस्थाननिषदनादिकृते । पूर्वं प्रमार्जनार्थं, मुनिलिङ्गायेदमादेयम् ॥४॥ ध्यानार्थमनलसेवा- तृणग्रहणवारणार्थमुपकारि । कल्पग्रहणं ग्लानाय, मृतपरिधापनार्थं च ॥५॥ ऊर्णामये च कल्पे, बहिःकृते शीतरक्षणं भवति । यूकापनकावश्याय-रक्षणं भूषणत्यागः ॥६॥ आभ्यन्तरिकीं पूर्वं प्रेक्ष्य, निषद्यां प्रगे ततो बाह्याम् । अपराह्णे विपरीतं, प्रेक्षेत रजोहरणदशिकाः ॥७॥ उदिते सवितरि वसतिं प्रमृज्य यत्नेन रेणुपटलमथ । संशोध्य कीटिकादिक - मृतजन्तून् तत्र संख्याय ॥८॥ संगृह्य च षट्पदिकाः, छायायां पुञ्जकं परिष्ठाप्य । खेलादिकृते कार्या, मल्लकभूतिर्नवोद्धृत्य ॥९॥ निक्षिप्ते पुञ्जाद, ईर्यापथिकां यतिः प्रतिक्रामेत् । यः संसक्तां वसतिं प्रमार्जयेत् सोऽपि च तथैव ॥१०॥