________________
યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા
૧૧૯
९८ गाचा
७६ पात्रकनिर्योगोऽयं, मात्रककल्पत्रये रजोहरणम् ।
मुखवसनपट्टकाविति, चतुर्दशोपकरणानि मुनेः ॥२२॥ यष्टिवियष्टिदण्डौ, विदण्डको नालिको कटित्रञ्च । संस्तारकोत्तरपटौ, इत्याद्यौपग्रहिक उपधिः ॥२३॥ अनुयोगे प्रारब्धे, प्रत्याख्यानं न दीयते यत्र । तत्रान्यस्य मुनीनां, वार्ताप्रमुखस्य का वार्ता ? ॥२४॥ गोचरचर्याकालो, यो यस्मिन् भवति तत्र साध्यः सः ।
कुर्यात् सूत्रार्थगते, पौरुष्यौ तदनुसारेण ॥२५॥ १०१ आवश्यकी भणित्वा, भवोपयुक्त इति गुरुवचः श्रुत्वा ।
इच्छामीत्युक्त्वाऽथ, स्मर्तव्यो गौतममुनीन्द्रः ॥२६॥ १०२ वामा च दक्षिणा वा, नाडी यत्रानिलो वहति पूर्णः ।
पवनग्रहणं कुर्वन्, पुरतो विदधीत तत्पादम् ॥२७॥ १०३ वसतेर्निर्यन् भूमेः, उत्क्षिप्य व्योम्नि दण्डकं कुर्यात् ।
लब्धे प्रथमे मुञ्चेद्, अवनि ततो नार्वाक् ॥२८॥ १०५ ऋज्वी गत्वाप्रत्यागतिका, गोमूत्रिका पतङ्गाख्या ।
पेटा तथाऽर्द्धपेटा, शम्बूकाऽन्तर्बहिर्द्विविधा ॥२९॥ ११२ पिण्डः शय्या वस्त्रं, पात्रं तुम्बादिकं चतुर्थञ्च ।
नैवाकल्प्यं गृह्णीत, कल्पनीयं सदा ग्राह्यम् ॥३०॥ ११३ पिण्डैषणाश्च पानक-शय्यापात्रैषणां न योऽधिजगे ।
तेनानीतं मुनिना, न कल्पते भक्तपानादि ॥३१॥ ११४ देशोनपूर्वकोटिं, विहरन् निश्चितमुपोषित: साधुः ।
निर्दोषपिण्डभोजी, ततो गवेष्यो विशुद्धोञ्छः ॥३२॥