________________ 73 on श्रीवानर्षिगणिविहितवृत्तियुतम् . क्रियताम् ? इत्यादिरूपामिति, तं गच्छं हे गुणसागर ! श्रमणगुणविवर्जितं 'जानीहि' अवगच्छ, अन्यत् किं कथ्यते ? इति // 111 // गणिगोअम ! जा उचिअं, सेयं वत्थं विवज्जिउं / सेवए चित्तरुवाणि, न सा अज्जा वियाहिया ||112 / / गणिन् गौतम ! या उचितं श्वेतवस्त्रं विवर्ण्य / सेवते चित्ररूपाणि, न सा आर्या व्याहृता // 112 // व्याख्या - हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्यं 'वस्त्रं' वसनं 'विवर्य' परित्यज्य सेवते 'चित्ररूपाणि' विविधभरतादियुक्तानि वस्त्राणि, यद्वा चित्राणि आश्चर्यकराणि रूपाणि गूल-फुद्दद्विका-कमलादीनि येषां तानि चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिनप्रवचनोड्डाहकारिणीति // 112 // सीवणं तुन्नणं भरणं, गिहत्थाणं तु जा करे | तिल्लउव्वट्टणं वा वि, अप्पणो य परस्स य ||113 / / सीवनं तुन्ननं भरणं, गृहस्थानां तु या करोति / तैलोद्वर्तनं वापि, आत्मनश्चाऽपरस्य च // 113 / / व्याख्या - या आर्या सीवनं खण्डितवस्त्रादेः तुन्ननं जीर्णवस्त्रादेः भरणं कञ्चकटोपिकाकुञ्चिकादीनां भरतभरणं गृहस्थानां, तुशब्दाद् गृहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात् घृतदुग्धतरिकादिना 'उद्वर्त्तनं' अङ्गोपाङ्गानां मर्दनं तैलोद्वर्त्तनं, अपिशब्दादङ्गक्षालन-विविधमण्डनादिकं करोति सुभद्राऽऽर्यादिवत् 'आत्मनश्च' स्वस्य 'परस्य च' गृहस्थबालकादेः, सा "पासत्था पासस्थविहारणी उसन्ना उसन्नविहारणी कुसीला कुसीलविहारणी"त्यादिदोषान्विताऽवगन्तव्येति // 113 // गच्छइ सविलासगई, सयणीअं तूलिअं सबिब्बोअं / उव्वट्टेइ सरीरं, सिणाणमाईणि जा कुणइ ||114||