________________ for श्रीगच्छाचारप्रकीर्णकम् // गच्छति सविलासगतिः शयनीयं तूलिकां च सबिब्बोकम् / उद्वर्त्तयति शरीरं स्नानादीनि या करोति // 114 // व्याख्या - 'गच्छइ सविलासगई'त्ति अत्रापि बिब्बोकशब्दस्य परामर्शः, या आर्या बिब्बोकपूर्वकं यथा स्यात्तथा 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, बिब्बोकविलासयोर्लक्षणं यथा "इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः। स्त्रीणामनादरकृतो बिम्बोको नाम विज्ञेयः // 1 // स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव / उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् // 2 // " [प्रश्नव्या सू०२७-वृत्तौ] अन्ये त्वाहुः -"विलासो नेत्रजो ज्ञेयः" / तथा शयनीयं=मञ्चकादिरूपं करोति, किंभूतं ?-डमरुकमणिन्यायेन सकारोऽत्रापि योज्यः ‘सतूलीय'ति गुप्तदवरकसहितं, पुनः किंभूतं ?- सबिब्बोकं' गल्लोपधानसहितं, उक्तञ्च कल्पे-“उभओ बिब्बोयणे" उभयतः शिरोऽन्तपादान्तावाश्रित्य 'बिब्बोयणे'त्ति उपधाने गूण्डके यत्रेति, तथा 'उद्वर्त्तयति' पिष्टिकादिना मर्दयतीत्यर्थः 'शरीरं' स्ववपुः, स्नानादीनि आदिशब्दाद्विलेपनमङ्गे कण्ठे पुष्पमालादि हस्ते तालवृन्तादिकं धूपनं वस्त्रादेः दृशोरञ्जनं दन्तकाष्ठमित्यादिकं या करोति सा आर्या नोक्ता श्रीवर्द्धमानस्वामिना, किन्तु वेषविडम्बनी जिनाज्ञाकन्दलीकुठारिका प्रवचनमालिन्यकारिणी अनाचारिणी सम्यक्त्वतरुकरिणी प्रमादसरणिः मुनिमनोभङ्गकारिणी सत्साधुयोधवारुणीति // 114 // गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काहीया / तरुणाइ अहिवडते, अणुजाणे साइ पडिणीया ||115|| गृहेषु गृहस्थानां गत्वा कथां कथयति काथिका। तरुणादीन् अभिपततः अनुजानाति सा प्रत्यनीका // 115 / / व्याख्या - गृहेषु गृहस्थानां गत्वा 'कथां' धर्माभासकथां संसारव्यापारविषयां 1. 'जाणे जा उ सा पडणी' A-D-G-प्रते / - - - - - - - - - - - - - - - - - - - - - -