________________ for श्रीगच्छाचारप्रकीर्णकम् // यत्र जकारमकारं, श्रमणी जल्पति गृहस्थप्रत्यक्षम् / प्रत्यक्षं संसारे, आर्या प्रक्षिपति आत्मानम् // 110 // व्याख्या - यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तव योनिर्येन त्वमुत्पन्ना, याहि शठेन सार्द्धं योगिनी भव, किं तव लग्नो यक्षः ?, त्वां याकिनी भक्षयति ?, तव जननी मृता तव जनको मृतः, रे ! जोषं कुरु, किं जन्मान्तरे यक्षिणी भविष्यसि ?, मकारं यथा-म्रियतां, मरिष्यति तव गुरुणी, मृतस्तव गुरुः, मुखं मा दर्शय, दुष्टं मुखं कृष्णं कुरु, तव मुखे विष्ठा पतिष्यति, चिन्तां मा कुरु, मुखं लात्वा गच्छ इतः, इत्यादिवचनपूर्वकं 'श्रमणी' श्रीजिनप्रवचनदमनी 'जल्पति' बाढस्वरेण कुत्सितं वक्तीत्यर्थः 'गृहस्थप्रत्यक्षं' गृहस्थानां श्रवणं यथा स्यात्तथा प्रत्यक्ष साक्षात् भवपरम्पराकोटिसङ्कले 'संसारे' चतुर्गत्यात्मके 'आर्या' साध्व्याभासवेषा वेषविडम्बिका 'प्रक्षिपति' पातयतीत्यर्थः ‘आत्मानं' स्वयमिति // 110 // जत्थ य गिहत्यभासाहिं, भासए अज्जिआ सुरुठ्ठावि / तं गच्छं गुणसायर ! समणगुणविवज्जियं जाण ||111|| यत्र च गृहस्थभाषाभिः भाषते आर्या सुरुष्टाऽपि / तं गच्छं गुणसागर ! श्रमणगुणविवर्जितं जानीहि // 111 / / व्याख्या - यत्र गणे च 'गृहस्थभाषाभिः' सावद्यरूपाभिर्भाषते, गृहस्थानां यथातव गृहं ज्वलतु, तव पुत्रो यमगृहे गच्छतु, त्वं तवाम्बाऽपि शाकिन्यौ स्तः, साध्वीनां यथा-तव शबं कर्षयामि, तव दन्तपतिं पातयामि, तव चरणौ कर्त्तयामि, तव जठरेऽग्निक्षेपं कुरु रे शाकिनि ! रे रण्डे !, इत्यादि भाषते, आर्यिका अधमा मुण्डी सुरुष्टा=अतिशयेन क्रोधाग्निना ज्वलिता, अपिशब्दात् स्वभावस्थाऽपि गृहस्थभाषाभिर्भाषते-तव गृहं पतितं दृश्यते कथं तत्रोद्यमं न कुरुषे ?, तव पुत्री वृद्धाऽस्ति वरगवेषणं कुरु त्वं, त्वया सुष्ठ कृतो विवाहः, तव पुत्रवधूटी भव्याऽस्ति, तव गृहे महिषी दुर्बलाऽस्ति, यौतकं कथं न ददासि ? वध्वा आणकं कथं न - - - - - - - - 1. 'भासाइ भा०' D-G-प्रते /