________________ 68 0 श्रीगच्छाचारप्रकीर्णकम् मल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, 'जत्थ ये'त्यत्र चकारादन्यैः क्रयविक्रयादिकं कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः ? - संयमात्= पृथिव्यादिसप्तदशविधात् भ्रष्टाः सर्वथा यतनातत्परतारहिताः, दूरीकृतचारित्रगुणा इत्यर्थः, 'तं' पूर्वोक्तस्वरूपं 'गच्छं' गणं गुणानां ज्ञानादिगुणानां सागरः समुद्रो गुणसागरस्तस्यामन्त्रणं 'हे गुणसागर !' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूर' अदर्शनं यथा स्यात्तथा परिहरेत् / अत्र विषं तूपमामानं येन 'विषादेकमरणं भवति न वा, परं गुणभ्रष्टगच्छसङ्गात् कुमतिग्रस्तगणसङ्गाच्चानन्तानि जन्ममरणानि अनन्ते संसारे भवन्तीति // 103 // आरंभेसु पसत्ता, सिद्धंतपरंमुहा विसयगिद्धा | मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ||104|| आरम्भेषु प्रसक्ताः सिद्धान्तपराङ्मुखा विषयगृद्धाः / मुक्त्वा मुनीन् गौतम ! वसेत् मध्ये सुविहितानाम् // 10 // व्याख्या - आरम्भेषु पृथिव्याधुपमर्दनेषु बहुवचनात् संरम्भसमारम्भयोरपि ग्रहः तेषु प्रकर्षण मनोवाक्कायव्यापारेण सक्ताः तत्पराः प्रसक्ताः, यद्वा आरम्भेषु= जीवोपमर्दकारिषु परिग्रहादिषु सक्ताः=मेलनपालनादितत्परास्तान्, सिद्धान्तेषु= आचाराङ्गादिश्रुतरत्नेषु पराङ्मुखाः विपरीतवक्त्राः, तदुक्तानुष्ठानलेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा - कामरूपो भोगरूपश्च, तत्र काम: शब्दरूपलक्षणः भोगो=गन्धरसस्पर्शरूपस्तस्मिन् गृद्धान् मुक्त्वा मुनीन् हे गौतम ! 'वसेत्' निवासं कुर्यादिति, मध्ये, केषां ? - सुष्ठ–मनोवाक्कायेन शोभनमनुष्ठानं विहितं निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति // 104 // तम्हा सम्मं निहालेउ, गच्छं सम्मग्गपट्टियं / वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयमा ! ||105|| तस्मात्सम्यग् निभाल्य, गच्छं सन्मार्गप्रस्थितम् / वसेत पक्षं मासं वा, यावज्जीवं तु गौतम ! // 105 / / 1. 'विषादिक(ना)मरणं' इति पूर्वमुद्रिते, अत्र A-आदिप्रतपाठः / - - - - - - - - - - - - - - -