________________ 67 for श्रीवानर्षिगणिविहितवृत्तियुतम् . यत्र च गौतम ! पञ्चानां, कथमपि सूनानामेकमपि भवेत् / तं गच्छं त्रिविधेन, व्युत्सृज्य व्रजेदन्यत्र // 101 / / व्याख्या - यत्र गणे च हे गौतम ! 'पञ्चानां' घरट्टिका 1 उदूखल 2 चुल्लक 3 पानीयगृह 4 सारवण 5 लक्षणानां कथमपि 'सूनानां' अनाथाशरणजीववृन्दवधस्थानानां खट्टिकगृहसदृशानां मध्ये एकमपि भवेत् तं 'गच्छं' अधममुनिसमूह 'त्रिविधेन' मनोवाक्कायेन कृतकारितानुमत्यात्मकेन 'व्युत्सृज्य' परित्यक्त्वा 'व्रजेत्' गच्छेत् 'अन्यत्र' सत्परम्परागतगण इति // 101 // सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा | जं चारित्तगुणेहिं तु उज्जलं तं तु सेविज्जा ||102 / / सूनारम्भप्रवृत्तं, गच्छं वेषोज्ज्वलं न सेवेत / यश्चारित्रगुणैः तूज्ज्वलस्तं तु सेवेत // 102 // व्याख्या - ‘सूनारम्भप्रवृत्तं' षड्जीवमर्दनपरं खण्डन्याद्यधिकरणकर्तारं वा 'गच्छं' साध्वाभासगणं, वेषेण कल्पकम्बलीचोलपट्टरजोहरणमुखपोतिकादिलक्षणनेपथ्येन साधुद्रव्यलिङ्गेनेत्यर्थः उज्ज्वलं सागरडण्डीरवत् परमश्वेतं वेषोज्ज्वलं न सेवेत, दुःखलक्षसंसारवर्द्धकत्वात्, कीदृशं सेवेत ? इत्याह - 'यं' गणं 'चारित्रगुणैः' समितिगुप्त्यादिगुणैः ‘उज्ज्वलं' निरतीचारमालोचितातीचारं वा तुशब्दाद् द्रव्यलिङ्गेन मलिनमपि, तं गणं सेवेत, तुशब्दात् तद्गतमुनीनां वैयावृत्त्यादिकमपि कुर्वीत, संसारक्षयहेतुकत्वादिति // 102 // जत्थ य मुणिणो कयविकयाई कुव्वंति संजमब्भट्ठा / तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ||103|| यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमभ्रष्टाः / तं गच्छं गुणसागर ! विषमिव दूरतः परिहरेत् // 103 / / व्याख्या - यत्र गणे 'मुनयः' साधुवेषविडम्बकाः प्रवचनोपघातकारकाः आत्मक्लेशकारकाः ‘कय'त्ति मूल्येन वस्त्रपात्रौषधशिष्यादिकं स्वीकुर्वन्ति 'विक्कयाई'ति 1. 'न वासिज्जा' E-F-G-प्रते / 2. 'संजमुब्भट्ठा' H-प्रते / 3. 'दूरे' E-प्रते /