________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् .. 'यत्र' गणे राजमार्गादौ वा तिष्ठेत् हे गौतम !, तथा एकाकिन्या संयत्या सार्द्ध "विशेषेण' हास्यविकथादिबहुप्रकारेण यत्र गणे साधुभिः परिचयः क्रियते 'तु' पुनः तं गच्छं 'निर्मर्यादं' जिनाज्ञाविकलं 'भाषामहे' कथयामः, एवं तं गच्छं निर्मर्यादं सद्गुणव्यवस्थाविकलं भाषयाम इति // 13 // दढचारित्तं मुत्तं, आइज्जं मयहरं च गुणरासिं / इक्को अज्झावेई, तमणायारं, न तं गच्छं // 94|| दृढचारित्रां मुक्तां आदेयां महत्तरां स गुणराशिम् / एकाकी अध्यापयति, सोऽनाचारः न स गच्छः // 94 // व्याख्या - दृढं चारित्रं पञ्चमहाव्रतादिलक्षणं यस्याः सा तथा तां 'मुक्तां' निःस्पृहां 'आदेयां' लोके आदेयवचनां 'मइहरं'ति=मतिगृहं गुणराशिं साध्वीं, चशब्दात् महत्तरां, यद्वा महत्तरपदस्थितां सर्वसाध्वीनां स्वामिनीमित्यर्थः, महत्तरास्वरूपं यथा "सीलत्था कयकरणा कुलजा परिणामिया य गंभीरा / गच्छाणुमया वुड्डा महत्तरत्तं लहइ अज्जा // 1 // " [ ] एवंविधामप्येकाकिनीमार्यां 'एकः' अद्वितीयो मुनिः 'अध्यापयति' सूत्रतोऽर्थतो वा तन्त्रं पाठयतीत्यर्थः, हे शिष्य ! तमनाचारं जानीहि, न तं गच्छं, 'मुत्तुं 'ति पाठान्तरे यत्र गणे दृढचारित्रं मदहरं गुणराशिं एवंविधमाचार्यं मुक्त्वा परित्यज्य, एतदुक्तं भवति-एवंविधः कदाचिदध्ययनोद्देशकादिकं पाठयेदिति // 14 // घणगज्जिय-हयकुहए-विज्जूदुग्गिज्झगूढहिययाओ | अज्जा अवारिआओ, इत्थीरज्ज, न तं गच्छं / / 95|| जत्थ समुद्देसकाले, साहूणं मंडलीइ अज्जाओ | गोअम ! ठवंति पाए, इत्थीरज्जं, न तं गच्छं / / 96 / / घनगर्जितहयकुहकविधुदुर्गाह्यगूढहृदयाः / आर्या अवारिताः, स्त्रीराज्यं, न स गच्छः // 95 / / 1. 'एक्को' H-प्रते / 2. 'अज्जावेई' पूर्वमुद्रिते / 3. 'य-कुहय-विज्जू गोयमा ! संजईम वि दुगिज्झ०' इति E-प्रते /