SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 60 for श्रीगच्छाचारप्रकीर्णकम् // साइज्जइ, तस्स चाउम्मासियं परिहारठाणं अणुग्घातियं // [नि० उ० ११/सू० 12-3] जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा 1 कंसबंधणाणि वा 2 जाव 16 वइरबंधणाणि वा 17 करेइ करेंतं वा साइज्जइ जाव परिभुजंतं वा साइज्जइ तस्सवि पुव्वपच्छित्तं / " [नि० उ० 11, सू० 4-5-6] 'सयणासण'त्ति शयनानां खट्वापल्यङ्कादीनां आसनानां मञ्चिका-चाकलकादीनां चशब्दाद्गुप्त फलकादीनां परिभोगो निरन्तरव्यापारणम् / तथा यत्र च 'वारडिआणं' ति आद्यन्तजिनतीर्थापेक्षया रक्तवस्त्राणां तत्तडियाणं'ति नीलपीतविचित्रभातिभरतादियुक्तवस्त्राणां च 'परिभोगः' सदा निष्कारणं व्यापारः 'मुक्त्वा' परित्यज्य 'शुक्लवस्त्रं' यतियोग्याम्बरमित्यर्थः, क्रियत इति शेषः, का मर्यादा ?, न काचिदपि तत्र गणे इति // 88-89 // कांस्यताम्रादिभ्यः स्वर्णरूप्यं बबनर्थकारीत्यतस्तन्निषेधं दृढयन्नाह - जत्थ हिरण्ण-सुवण्णं, हत्थेण पराणगं पि नो छिप्पे | कारणसमप्पियंपि हु निमिसखणद्धंपि, तं गच्छं / / 90|| यत्र हिरण्यसुवर्णे हस्तेन परकीयेऽपि न स्पृशेत् / व्याख्या - यत्र गणे 'हिरण्यस्वर्ण' पूर्वोक्तशब्दार्थं साधुः 'हस्तेन' स्वकरेण 'पराणगंपि'त्ति परकीयमपि परसम्बन्ध्यपि 'न स्पृशेत्' न संघट्टयेत् 'कारणसमर्पितमपि' केनाप्यगारिणा केनापि भयस्नेहादिहेतुनाऽर्पितमपि 'निमेषक्षणार्द्धमपि' तत्र निमेषो= नेत्रसञ्चालनरूपः, अष्टादशनिमेषैः काष्ठा, काष्ठाद्वयेन लवः, लवपञ्चदशभिः कला, कलाद्वयेन लेशः, लेशैः पञ्चदशभिः क्षणः, तयोरर्द्धमपि स गच्छः / यद्वा-यत्र परकीयमपि हिरण्यस्वर्णं हस्तेन साधुर्न स्पृशेत् कारणसमर्पितमपि, भावार्थस्त्वयम्कार्ये संपूर्णे कृते सतीत्यर्थः, उक्तञ्च निशीथपीठिकायाम्-"विसे कणग'त्ति विसघत्थस्स कणगं=सुवण्णं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिज्जइ" [नि० भा० ३९४-चूर्णी] त्ति // 10 // - - ग' इति प मुद्रिते, अत्र A-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy